पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १५१ 'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि । शरीरिणां शरीराणि कमलानि न संशयः॥ इत्यादौ क्ष्लेषभित्तिकाभेदाध्यवसितधर्मं विना धर्मान्तरस्य सर्वथैवा- स्फूर्तेश्च । नान्त्यः । सादृश्यस्य शब्दोपात्तत्वेनोपमात्वापत्तेः । न च सा- दृश्यस्य वाच्यतायामेवोपमाव्यपदेशः । 'नलिनप्रतिपक्षमाननम्' इत्यादौ तदभावापत्तेः । किं च 'विद्वन्मानसहंस-' इत्यादौ श्लिष्टपरम्परितरू- पके क्ष्लेषनिष्पत्तौ क्ष्लेषभित्तिकाभेदाध्यवसानेन मानसवासित्वरूपे भूपहंसयोः सादृश्ये सिद्धे सदृशलक्षणामूलस्य भूपे हंसरूपकस्य सिद्धिः । तस्यां च सत्यां सरोमनोरूपार्थद्वयाभिधानलक्षणस्य श्वेषस्य निष्पत्तिरिति परस्प- राश्रयः । नहि रूपकास्फूर्तौ सरोरूपेऽर्थे मानसशब्दस्य तात्पर्य वेद- यितुं किंचित्प्रमाणमवतरति । स्फुरिते तु रूपके तद्वटकसादृश्यान्यथानु- पपत्तिरूपेण प्रमाणेनार्थद्वयादवोधफलकस्य तदुभयप्रतिपादनात्मनः क्ष्ले- षस्य निष्पत्तिः । अतो नामार्थयोरभेदान्वयसरणिरेव रूपकस्थले रम- णीया । सदृशलक्षणायाः फलं रूपके तादूप्यप्रत्यय इत्यपि न हृदयं- गमम् । तत्सदृश इति शब्दात्सादृश्यप्रत्यये सत्यपि तादूप्यप्रत्यया- पत्तेः" इत्याहुः। मेति। उपात्तधर्मान्याह्लादकत्वादिरित्यर्थः । तथानुभवे विसंवादादाह-अङ्कितानीति। अक्षाणीन्द्रियाणि । अक्षाः पद्माक्षाश्च । तत्समूहैप्तानि । रोगसहितानि, सरोगामी- नीत्यर्थः । क्ष्लेषेति । शब्दक्ष्लेषनिमित्तको यो विशेषणार्थयोरभेदाध्यवसायस्तद्विषयी- भूतो यो धर्मस्तद्वयाप्तत्वसरोगत्वरूपस्तमित्यर्थः । एवमग्रेऽपि । एवं चात्र पौनरुक्त्यं दृढमिति भावः । शब्दोपात्तेति । लक्षणयेति भावः । तथा च रूपकोच्छेदापत्ति रिति भावः । वाच्यतायामेवेति । शक्त्येति भावः । तदभावेति । प्रतिपक्षश- ब्दस्य न सादृश्ये शक्तिः । किं तु लक्षणेति भावः । इष्टापत्तावाह-किं चेति । वि. द्वदिति । 'विद्वन्मानसहंस वैरिक्रमलासंकोचशीतघुते दुर्गामार्गणनीललोहित समित्स्वी- कारवैश्वानर । सत्यप्रीतिर्विधानदक्ष विजयप्राग्भारभीम प्रभो साम्राज्यं वरवीर वत्सर- शतं वैरिञ्चमुच्चैः क्रियाः ॥' इत्यादावित्यर्थः । अत्र मानसमेव मानसमित्यादिक्ष्लेषः । त- स्यां रूपकसिद्धौ । तद्धटकेति । लक्ष्यतावच्छेदकेत्यर्थः । अर्थद्वयोति । सरोमनोरू- पेत्यादिः । प्राचोक्तमन्यत्खण्डयति--सहशेति । नास्ति लक्षणेतीति।मास्तु लक्षणा।