पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० काव्यमाला। चन्द्र इत्यादौ पराभिमतसारोपलक्षणोदाहरणे वाच्यार्थयोरेवाभेदान्वयो- ऽभ्युपगन्तव्यः । न तु वाच्यलक्ष्ययोः । अन्यथा 'राजनारायणं लक्ष्मी- स्त्वामालिङ्गति निर्भरम्', 'पादाम्बुजं भवतु मे विजयाय मञ्जुमञ्जीरशिञ्जि- तमनोहरमम्बिकायाः' इत्यादौ क्रमेणोपमारूपकयोरुपमितविशेषणसमा- साधीनयोर्लक्ष्मीकर्तृकालिङ्गनमञ्जुमञ्जीरशिञ्जितमनोहरत्वयोरनुपपत्तिनिर्णा- यिका रूपकोपमयोः प्राचीनैस्तत्र तत्रोपनिबद्धा विरुद्धा स्यात् । आद्य- पद्ये उपमाया इव रूपकस्यापि स्वीकारे बाधकस्य तुल्यतया तन्निर्णा- यकताया असंगतेः। द्वितीयपद्ये रूपकस्यापि स्वीकारे बाधकाभावेन तन्निवर्तकताया अयोगात् । न च मुखचन्द्रादौ समासे क्वचिदस्तु नाम प्रागुक्तरीत्या लक्षणां विनापि बोधोपपत्तिः, व्यासे तु लक्षणाया नास्ति बाधकमिति वाच्यम् । 'कृपया सुधया सिञ्च हरे मां तापमूर्छितम्' इत्यादौ व्यासेऽप्यनुपपत्तेः । न च सिञ्चतेरपि विषयीकरणे लक्षणया ना- नुपपत्तिः । उत्प्रेक्षाद्यतिरिक्तातिशयोक्त्यपह्नवादिष्विवाहार्यज्ञानेनोपपत्तौ लक्षणायां बीजाभावादनुभवविरोधाच्च । अपि चोपमानवाचकस्य चन्द्रा- दिपदस्य रूपके उपमानसदृशे लक्षणा इति हि प्राचां समयः । तत्र च लक्ष्यतावच्छेदकं सादृश्यत्वम् । तच्च समानधर्मरूपम् । स च लक्ष्यांशे सुन्दरत्वादिना विशेषरूपेण प्रतीयते, उताहो सामान्यरूपेण । नाद्यः । सुन्दरं मुखं चन्द्र इत्यादौ पौनरुक्त्यापत्तेः । न चैवमादावुपात्तधर्मके रूपके तद्धर्मातिरिक्तो धर्म एव लक्ष्यतावच्छेदकीभूतसादृश्यरूप इति वाच्यम् । अनुभवविरोधात् । त्विति । अन्यथा वैपरीत्याङ्गीकारे । विरुद्धेत्यत्रास्यान्वयः । उपमितविशेषणेति। 'उपमितं व्याघ्रादिभिः' । 'मयूरव्यंसकादयश्च' इतीत्यर्थः । तत्र तयोः स्वीकारे या तदनु- पपत्तिः सा वैपरीत्ये निर्णायिकेत्यखण्डार्थः (?) । बाधकस्य तत्कर्तृकालिङ्गनासंभवस्य । बाधकाभावेन तादृशामनोहरत्वासंभवाभावेन । प्रागुक्तेति । प्राचीनोक्तेत्यर्थः । ना- स्ति बाधकमिति । प्राचानुक्तत्वादिति भावः । सिञ्चतेरिति । अपिरेवार्थः । उत्प्रेक्षेति । अत्र तु यथा त्वलक्षणा तथा स्फुटीभविष्यति । विनिगमनाविरहादाह- अनुभवेति । तत्र विसंवादादाह-अपि चेति । स च समानधर्मश्च । एवमादौ इत्यादावित्यर्थः । अत्रादिशब्दस्य प्रकारार्थत्वात्तत्प्रयोजकधर्ममाह-उपात्तेति । तद्ध-