पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। षकल्पने मानाभावात् । साधारणधर्मानुपस्थितिदशायामपि 'मुखं यदि चन्द्रः स्यात्तदा भूम्यवस्थितं न स्यात्' इत्यादौ तादृशप्रतीत्युपग- माच्च । ननु रूपकप्रतीतेरुपमानाभेदविषयत्वविरहे 'सिंहेन सदृशो नायं किं तु सिंहो नराधिपः' इत्यादौ निषेध्यविधेययोरसंगतिरिति चेत्, न । अनुपदमेव प्राचीनमतद्वयेऽपि रूपके ताद्रूप्यप्रतिपत्तेः स्वीकारस्य प्रति- पादनात् । अथ विधेयकोटौ प्राचां मते सादृश्यस्यापि प्रविष्टतया तनिषेधानु- पपत्तिस्तथापि स्थितैवेति चेत्, भेदघटितसादृश्यरूपाया उपमाया एव निषेध्यत्वात् तिरोभूतभेदसादृश्यलक्षणस्य रूपकस्य विधेयत्वाच्च नानु- पपत्तिः। यदप्युक्तं रूपके लक्षणाखीकारे 'राजनारायणम्' इत्यत्र 'पादा- म्बुजम्' इत्यत्र चोपमारूपकयोर्वाधिकतया रूपकोपमयोर्निर्णायकतया च लक्ष्मीकर्तृकालिङ्गनमञ्जमञ्जीरशिञ्जितत्वयोरनुपपत्तिः प्राचीनैरुक्ता विरु- द्धा स्यादित्यादि, तदपि न । रूपके उपमानतावच्छेदकरूपेण तत्सदृश- प्रत्ययस्योपपादितत्त्वेन 'राजनारायणम्' इत्यादौ विशेषणसमासायत्तस्य रूपकस्य स्वीकारे प्रधानीभूतोत्तरपदार्थस्य नारायणसदृशस्यापि नारा- यणत्वेनैव प्रतीतेर्लक्ष्मीकर्तृकालिङ्गनकर्मताया अनुपपत्तेरभावात् । उपमाया उपमितसमासायत्तायाः स्वीकारे तु प्रधानीभूतपूर्वपदार्थस्य राज्ञो राजत्वे- नैव प्रत्ययात्तादृशकर्मताया अनुपपत्तेः । ‘पादाम्बुजम्' इत्यादावपि रूप- कस्य स्वीकारे प्रधानीभूतोत्तरपदार्थस्याम्बुजसदृशस्याम्बुजत्वेनैव प्रतीते- दीनां तु नोपमानोपमेयत्वम् । अत एव तत्र रूपकादिकं न । अभेदबुद्धिस्तु तत्रास्तीति भावः । न त्वन्यथानुपपत्तिरेव मानं तत्राह-साधारणेति। तादृशेति। उपमानोपमे- ययोश्चन्द्रमुखयो रूपकसत्त्वेनाभेदप्रतीत्यङ्गीकारादित्यर्थः । तस्मादभेदबुद्धौ तस्य प्रयोज- कत्वस्य दुर्वचतया सैव स्यात् । रूपकं न पर्यवस्येत् । अतस्तदुपस्थित्यर्थ लक्षणावश्यमा- श्रयणीयेति भावः । तत्र शङ्कते--ननु रूपकेति । विरहे इति। नामार्थयोरभेदान्वय इति सरण्यनङ्गीकारे इत्यर्थः । विधेयकोटाविति । 'सिंहो नराधिपः' इत्यादावि- त्यर्थः । तथापि ताद्रूप्यप्रतिपत्त्यङ्गीकारेऽपि । एवेन सादृश्यस्य विधिनिषेधव्यावृत्तिः । तिरोभूतभेदेति बहुव्रीहिः । सादृश्येति । सादृश्यरूपस्येत्यर्थः। विशेषणसमासेति । मयूरव्यंसक इति समासेत्यर्थः। उपमितसमासेति । 'उपमितं व्याघ्रादि-' इति समासे. त्यर्थः । तादृशेति । लक्ष्मीकर्तृकालिङ्गनेत्यर्थः । तस्या इति । मञ्जुमञ्जीरशिञ्जितम- २०