पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। शब्दस्य यस्मिन्नर्थेऽस्ति तस्य सोऽर्थोऽभिधेयः । स च जातिगुणक्रियाया यादृच्छिकात्मकः । तत्र जातिर्गोत्वादिः संस्थानविशेषाभिव्यङ्गया प्रत्य- क्षसिद्धा गवादिपदानामभिधेया। अनुमानसिद्धा च घ्राणारसनत्वादिर्घाणर- सनादिपदानाम् । आनन्त्याद्वयभिचाराच्च व्यक्तीनामभिधेयताया अकल्प- नात् । न च ज्ञातगोत्वादिरूपया गोत्वादिज्ञानरूपया वा प्रत्यासत्या प्रत्य- क्षेण परिकलितासु सकलतदीयव्यक्तिष्वभिधायाः कल्पने नास्ति दोष इति वाच्यम् । सामान्यप्रत्यासत्तेर्निराकरणात् । गौरवदोषस्यानुद्वाराच्च । एतेन शक्तिग्रहपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकतयैव हेतुहेतुमद्भावा- दगृहीतसंकेतानामपि व्यक्तिविशेषाणामन्वयबोधविषयताया उपपादनेऽपि न निस्तारः । व्यक्तीनां प्रत्ययस्त्वाक्षेपाल्लक्षणया वेत्यन्यदेतत् । अयं च जातिरूपः शब्दार्थप्राणद इत्युच्यते । प्राणं व्यवहारयोग्यतां ददाति सं- पादयतीति व्युत्पत्तेः । तदुक्तम्-'गौः स्वरूपेण न गौर्नाप्यगौः, गो- त्वाभिसंबन्धाद्रौः' इति । अस्यार्थः-गौः सास्नादिमान्धर्मी स्वरूपेण अज्ञातगोत्वकेन धर्मिस्वरूपमात्रेण न गौः । न गोव्यवहारनिर्वाहकः । नाप्यगौः नापि गोभिन्न इति व्यवहारस्य निर्वाहकः । तथा सति दूरादन- भिव्यक्तसंस्थानतया गोत्वाग्रहदशायां गवि गौरिति गोभिन्न इति वा व्यवहारः स्यात् । स्वरूपस्याविशेषाद्धटे गौरिति गवि चागौरिति वा व्यवहारः स्यादिति भावः । गोत्वाभिसंबन्धाद्गोत्ववत्तया ज्ञानाद्रौर्गोश- ब्दव्यवहार्य इति । योगेति । प्रत्यक्षेति । गवादीनां प्रत्यक्षत्वादिति भावः । अनुमानेति । घ्राणेन्द्रि- यादीनामतीन्द्रियत्वादिति भावः । आनन्त्यादिति । अनन्तशक्तिकल्पनजगौरवा- दित्यर्थः । ज्ञायमानं सामान्यं प्रत्यासत्तिरितिमतेनाह-ज्ञातगोत्वादीति । सामान्यज्ञानं प्रत्यासत्तिरितिमतेनाह-गोत्वादिज्ञानेति । प्रत्यक्षेण अलौकिकेन । गौरवदोषस्यति । द्वितीयदोषोद्धारेऽप्याद्यदोषस्येत्यर्थः । एतेन गौरवदोषानुद्धा- रेण । एवकारेण समानविशेष्यकत्वादिव्यवच्छेदः । तदुक्तमिति । प्रकाशकृतेति शेषः । एवमग्रेऽपि । तथा सति धमिस्वरूपमात्रेण व्यवहारनिर्वाहकत्वाङ्गीकारे । गौरिति व्यवहारे इष्टापत्त्या आह-गोभिन्न इतीति । अविशेषादिति । व्य- क्तिस्वरूपाणां स्वतोऽव्यावृत्तत्वादिति भावः । गौरित्यत्र विशेषणज्ञानविधया तस्यो- पयोगेऽपि नाप्यगौरित्यनेन व्यवहारमात्रं धर्मज्ञानसाध्यमित्युच्यते । अभावज्ञानेऽपि