पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १४३ कयोरर्थयोरुपस्थितिसंभवेन द्वितीयपदप्रयोगस्य नैरर्थक्यापत्तेश्च, इति चेत्, अत्राहुः-'एकपदोपात्तत्वादन्तरङ्गाकाङ्क्षावशेन प्रथमं योगार्थरू- व्यर्थयोरन्वये सति समुल्लसितस्य विशिष्टार्थस्यैव पदान्तरार्थेनान्वयः । न तु तयोरेव विशकलितयोरिति यद्यपि न्यायसिद्धोऽर्थः, तथापि श- क्त्यार्थस्य प्रतिपादने स्यादेवम् । लक्षणायां तु योगरूढेन योगार्थमात्र- प्रतिपादनेन न किंचिद्बाधकमस्ति । नापि द्वितीयपदप्रयोगस्य नैरर्थ- क्यम् । तथा सति रूढयर्थबोधनेन गतार्थेन योगरूढशब्देन प्रतिपाद्य- मानस्य योगार्थस्य पङ्कजाक्षीत्यादाविव नान्तरीयकत्वशङ्कया कुर्वद्रूप- ताया अपहतौ प्रकृतोपयोग्यतिशयविशेषव्यञ्जनस्य पाक्षिकत्वापत्तेः । द्वितीयपदयोगे तु तेनैव रूढ्यर्थप्रतिपादने सिद्धे योगरूढपदप्रतिपाद्यस्य योगार्थस्य नान्तरीयकत्वशङ्काया अयोगात्कुर्वद्रूपत्वेन व्यङ्गयविशेषव्य- ञ्जकत्वं नियमेन सिद्ध्यति । एषा पदद्वयोपादानस्थले गतिरुक्ता । यत्र तु 'पुष्पधन्वा विजयते जगत्त्वत्करुणावशात्' इत्यादावेकेनैव पदेन रू- व्यर्थोपस्थितिर्योगार्थद्वारा निःसारत्वाद्यवगमश्च भवति, तत्र कविकृतम- न्मथरूढपदान्तरानुपादानपूर्वकपुष्पधन्वपदोपादानप्रतिसंधानेन तदीययो- गाथै कुर्वद्रूपताधानं बोध्यम् । तदित्यं द्वितीयपदस्योपादानेऽनुपादाने वा न क्षतिः । एवं जात्यन्तरविशिष्टवाचकपदसमभिव्याहारेऽपि । 'दिशि दिशि जलजानि सन्ति कुमुदानि' इत्यत्रापि जलजादिपदानां लक्षणया योगार्थमात्रबोधकत्वम् । योगशक्त्युल्लासितस्य तु तादृशार्थस्य रूढ्य- थोपश्चिष्टत्वेन स्वातन्त्र्येण कुमुदादावन्वयायोगात् । इत्थमभिधा निरूपिता। अनया यः शब्दो यमर्थ बोधयति स तस्य वाचकः । इयं च यस्य वेति । आवश्यकयोरिति । पदद्वयोल्लेखेनोक्तातिशयव्यञ्जनार्थमिति भावः । एकपदो. पेति । अन्तरङ्गत्वादौ हेतुरयम् । तयोः योगार्थरूढयर्थयोः । विशकलितेति । पदा- न्तरार्थेनान्वय इत्यस्यानुषङ्गः । एवं योगार्थमात्रबोधकत्वानुपपादनमाद्यदोषमुद्धृत्य द्विती- यदोषमुद्धरति-नापीति । तथा सति द्वितीयपदानुपादाने सति । नान्तरीयकत्वे ति । मुख्यतात्पर्याविषयत्वेत्यर्थः । शङ्काया अभावे त्विष्टार्थसिद्धिरत आह-पाक्षि. केति । अत एवाग्रे नियमेनेति वक्ष्यति । जगत् कर्म । कविकृतत्वमुपादानेऽन्वेति । प्रतिसंधानेन श्रोतुरिति शेषः । इत्यत्रापि इत्यादावपि । शक्त्या न निर्वाह इत्याह-