पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ काव्यमाला। योराद्यद्वितीयभेदयोः प्रसक्तिरिति तु न शङ्कयम् । समुदायावयवशक्ति- वेद्ययोरर्थयोरनन्वयेन तादृशशक्त्योः कैवल्यस्य साम्राज्यात् । इदमेव हि केवलत्वमिह विवक्षितम्, यदन्वयायोग्यार्थबोधकत्वम् । संकरस्त्वन्वययो- ग्यार्थबोधकयोरेवेति न तस्यात्र प्रसक्तिः' इत्याहुः । अन्ये तु–'अश्व- कर्णादिशब्देषु नाभिधायाः प्रथमद्वितीययोर्विधयोः प्रसक्तिः। कैवल्य- विरहात् । परंतु संकरस्य द्वौ भेदौ-योगरूढिर्यौगिकरूढिश्चेति । तत्राद्यस्योदाहरणं पङ्कजादिशब्दाः । द्वितीयस्य त्वश्वकर्णादयः' इत्याहुः । 'चतुर्थ एवायमभिधाया भेदः' इत्यप्यन्ये । 'अखण्डा एव हि शब्दाः । तत्र समासेषु पदानां कृत्तद्धिततिङ्न्तेषु च प्रकृतिप्रत्ययानां विभागः काल्पनिक एवेति कुत्रास्ति योगशक्तिः । विशिष्टस्य विशिष्टार्थे रूढेरे- वाभ्युपगमात्' इत्यपि वदन्ति । अथ 'गीष्पतिरप्याङ्गिरसो गदितुं ते गुणगणान्सगर्वो न । इन्द्रः सहस्त्रनयनोऽप्यदुतरूपं परिच्छेत्तुम् ॥' इत्यादौ रूढ्यर्थमादाय पुनरुक्त्यापत्तिः । न चैवंविधपदद्वयसमभि- व्याहारस्थले योगरूढपदस्यावयवार्थमात्रबोधकत्वम् । तावन्मात्रस्यैव प्रकृतोपयोग्यतिशयविशेषसमर्पकत्वात्, इति वाच्यम् । एवमपि योग- रूढपदस्य रूढिशक्तेरनियस्त्रणेन योगार्थमात्रप्रतिपादकताया अनुपपाद- नादुक्तदोषस्यानुवृत्तेः । एकेनैव पदेन योगार्थरूड्यर्थयोरुभयोरप्यावश्य-

योगबोध्यार्थान्वयायोग्यार्थप्रतिपादकत्वं रूढे: केवलत्वम् । रूढियोध्यार्थान्वया योग्या- थेप्रतिपादकत्वं योगस्य केवलत्वम् । परस्परप्रतिपाद्ययोरन्वययोग्यत्वे संकर इति फलितम् । बोधकयोरेवेतीति । भेदयोरित्यर्थः । तादृशकैवल्यविवक्षायां मानाभावादाह- अन्ये त्विति । संकरस्य योगरूढिशब्देनैव प्रसिद्धर्मतान्तरमाह- चतुर्थ एवेति । एवेनाभिधापदसंबद्धेन संकरभेदनिरासः । तथा चाभिधा चतुर्विधेति भावः । सिद्धान्तमाह-अखण्डा इति । हिस्त्वर्थे । तत्र अखण्डानां मध्ये । तथा चाभिधाया रूढयाख्य एक एव भेद इति भावः । अत्र शङ्कते-अथेति । गीष्पति. रिति । राजवर्णनमिदम् । अतिशयेति । राजनिष्ठगुणाद्यतिशयेत्यर्थः । अनियन्त्रणेन असंकोचेन । प्रकरणादिसंकोचकाभावादिति भावः। प्रकरणादिसत्त्वे आह-एकेनै-