पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४१ रसगङ्गाधरः। नाम प्रतिपादकत्वमभिधेत्युच्यते । अथ प्रतिपदकत्वं प्रतिपत्त्यनुकूल- व्यापाररूपं ज्ञातं सदेवोपयुज्यते प्रतिपत्तौ, इत्युच्येत, एवमपि श- क्त्येत्यनेन शब्दगतार्थगता वा काचिच्छक्तिः प्रतिपत्तिहेतुतया विवक्षिता। सैवाभिधेति 'अभिधया प्रतिपादकत्वमभिधा' इति लक्षणं पर्यवसन्नम् । तथा च स्फुटैवासंगतिरात्माश्रयश्च । न चाभिघातः शक्तिरतिरिक्ता श- ब्दजन्यप्रतिपत्तिप्रयोजिका काचिदस्तीत्यत्र प्रमाणमस्ति । सेयमभिधा त्रिविधा-केवलसमुदायशक्तिः, केवलावयवशक्तिः, समुदायावयवशक्तिसंकरश्चेति । आद्याया डित्यादिरुदाहरणम् । तत्राव- यवशक्तेरभावात् । द्वितीयायास्तु पाचकपाठकादिः । तत्र धातुप्रत्ययश- क्तिबोध्ययोरर्थयोरन्वयेनोल्लसितात्पाककर्तृरूपादर्थाद्दतेऽर्थान्तरस्यानवभा- सेन समुदायशक्तेरभावात् । तृतीयायाः पङ्कजादिः । इह धातूपदप्रत्यय- रूपावयवशक्तिवेद्यानां पङ्कजननकर्तृणामाकाङ्क्षादिवशादन्वये प्रकाशमा- नात्पङ्कजनिकर्तृरूपादर्थादतिरिक्तस्य पझ्नत्वविशिष्टस्य प्रत्ययेन तदर्थस- मुदायशक्तेरपि कल्पनादुभयोः संकरः । एता एव विधा रूढि-योग-यो. गरूढिशब्दैर्व्यपदिश्यन्ते । यत्तु 'अखण्डशक्तिमात्रेणैकार्थप्रतिपादकत्वं रूढिः । अवयवशक्तिमात्रसापेक्षं पदस्यैकार्थप्रतिपादकत्वं योगः । उभ- यशक्तिसापेक्षमेकार्थप्रतिपादकत्वं योगरूढिः ।' इति वृत्तिवार्तिकेऽप्प- दीक्षितैरुक्तम्, तन्न । अभिधालक्षणोक्तदूषणानामिहापि दुर्वारत्वात् । अथ अश्वगन्धा-अश्वकर्ण-मण्डप-निशान्त-कुवलयादिशब्देषु का शक्ति- रिति । अत्र केचित् 'अश्वगन्धारसं पिबेत्' इत्यादिषु विषयविशेषे केव- लसमुदायशक्तिः । अश्वगन्धा वाजिशाला, इत्यादिषु तु केवलयोगश- क्तिः । समुदायावयवशक्त्योरुभयोरेकशब्दाश्रयत्वे कथं केवलत्वविशेषित- त्यातिप्रसङ्गवारणेऽपि । विवक्षितेति । शक्त्येति । तृतीयाश्रुतेरिति भावः । स्वज्ञाने स्वज्ञानापेक्षत्वेनात्माश्रयस्य स्पष्टत्वादसंगतिमुपपादयति-न चेति । नहीत्यर्थः । प्र. माणमस्तीति । प्रकृत्यादित्वाद्धान्येन धनवानित्यादिवत्तृतीयाया अभेदार्थकत्वेन न कश्चिद्दोष इति चिन्त्यमेतत्सर्वम् । निरूपिताभिधां विभजते-सेयमिति । धातूपेति पङ्कादिभिर्यथासंख्येनान्वयः । उभयोः समुदायावयवशक्त्योः । विधाः प्रकाराः । दूषणानां प्रतिपादकत्वनिष्ठत्वात्संभवासंगतिरात्माश्रयाणाम् । विषयविशेष इति । ओषधीरूपे- त्यर्थः । शङ्कते-समुदेति । अनन्वयेन मिथ इत्यादि । पदान्वयायोग्येति । एवं च