पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १४५ गुणः शुक्लदिः शुक्लादिपदानामभिधेयः । क्रिया चलनादिश्चलादिश- ब्दानाम् । शुक्लादीनां चलनादीनां च प्रतिव्यक्तिभेददर्शनादानन्त्यव्य- भिचाराभ्यां व्यक्तिशक्तिवाददोषाभ्यामिहापि कलुषीकरणमिति चेत्, तेषां लाघवात्प्रत्यभिज्ञाबलाच्चैकताया अभ्युपगमात् । तदुक्तम्-'गुणक्रियाय- दृच्छानां वस्तुत एकरूपाणामाश्रयभेदाद्भेद इव लक्ष्यते' इति । तथा च भेदप्रतीतिर्भ्रम एवेति भावः । इदमुपलक्षणम् । उत्पत्तिविनाशप्रतीतिरपि तथैव । वर्णनित्यतावादे गकाराघुत्पत्तिविनाशप्रतीतेर्भ्रमत्वस्य स्वीकारात् । यादृच्छिकस्तु वत्र्क स्वेच्छया डित्थादिशब्दानां प्रवृत्तिनिमित्तत्वे संनिवे- शितो धर्मः। स च 'परम्परया व्यक्तिगतश्चरमवर्णाभिव्यङ्गयोऽखण्डः स्फोटः' इत्येके । 'आनुपूर्व्यवच्छिन्नो वर्णसमुदायः' इत्यपरे । 'केवला व्यक्तिरेव' इतीतरे । तत्राद्यमतद्वये विशेषणज्ञानाद्विशिष्टप्रत्ययः । तृ- तीयमते च निर्विकल्पकात्मकः प्रत्ययः । तदित्यं चतुष्टयी शब्दानां प्रवृत्तिरिति दर्शनं व्यवस्थितम् । सर्वेषां शब्दानां जातिरेवार्थः । गुणक्रि- याशब्दानां गुणक्रियागतायाः, यदृच्छाशब्दानां च बालवृद्धशुकाधुदी- रिततत्तच्छब्दवृत्तेस्तत्तत्समयभेदभिन्नार्थवृत्तेर्वा जातेरेवाभिधेयतासंभवात् । इति जातिशक्तिदर्शनम् । अथ केयं लक्षणा, यन्मूलश्चरमं निरूपितो ध्वनिः । उच्यते- शक्यसंबन्धो लक्षणा। तस्याश्चार्थोपस्थापकत्वे मुख्यार्थतावच्छेदके तात्पर्यविषयान्वयिताव- च्छेदकताया अभावो न तन्त्रम् । शक्यतावच्छेदकरूपेण लक्ष्यभानस्य स्वीकारात् । किं तु तात्पर्यविषयान्वये मुख्यार्थतावच्छेदकरूपेण मुख्या- र्थप्रतियोगिकताया अभावो रूढिप्रयोजन्योरन्यतरच्च तन्त्रम् । मुख्या- प्रतियोगितावच्छेदकविशिष्टज्ञानस्य प्रतियोगितावच्छेदकज्ञानस्य वा हेतुत्वादित्याहुः । शङ्कते-शुक्लादीनामिति । इहापि गुणक्रिययोरभिधेयत्वेऽपि । चेदित्यस्य तत्रेति शेषः । एकताया इति। तथा च नित्यत्वमपि सिद्धमिति भावः । तथैव भ्रम एव । व्यक्तिगतोऽर्थव्यक्तिगतः । अतिरिक्तस्फोटाङ्गीकारे फलाभावादाह- आनुपूर्व्येति । वर्णानां जन्यत्वेन समुदायासंभवादाह-केवलेति । दर्शनं मतम् । मतान्तरमाह-सर्वेषामिति । जातिगुणक्रियायदृच्छाशब्दानामित्यर्थः । शब्द. वृत्तेः परम्परया तन्निष्ठत्वकल्पने गौरवादाह-तत्तत्समयेति। बालत्वयुवत्ववृद्धत्वरूपै.