पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 'दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः । अपि चालकवेषधारिणो मकरन्दस्प्टहयालवोऽलयः ॥' अत्र पूर्वोत्तरार्धवर्तिनीभ्यामपहुतिभ्यां न त्वं नारी किं तु नलिनीति तृतीयापहुतिर्व्यज्यते । एषु प्रौढोक्तिनिष्पन्नो व्यञ्जकः । यद्यपि शब्दशक्तिमूलकत्वमर्थशक्तिमूलकत्वं चेत्युभयमपि सकलव्य- ङ्गयसाधारणम्, शब्दार्थयोरनुसंधानं विना व्यङ्गयस्यैवानुल्लासात्, त- थापि परिवृत्त्यसहिष्णूनां शब्दानां प्राचुर्ये तत्प्रयुक्तात्प्राधान्यात्सत्या अप्यर्थशक्तेरप्राधान्याञ्च व्यङ्गयस्य शब्दशक्तिमूलकत्वेनैव व्यपदेशः । परिवृत्तिसहिष्णूनां तु प्राचुर्येऽर्थशक्तेरेव प्राधान्यात्सत्या अपि शब्द- शक्तेः प्रधानानुगुण्यार्थतया मल्लग्रामादिवत्प्रधानेनैव व्यपदेशः । यत्र तु काव्ये परिवृत्ति सहमानानामसहमानानां च शब्दानां नैकजातीयप्राचुर्यम्, अपि तु साम्यमेव । तत्र शब्दार्थोभयशक्तिमूलकस्य व्यङ्गयस्य स्थिति- रिति द्वयुत्थो ध्वनिः । न चायं शब्दशक्तिमूलकतयैवार्थशक्तिमूलकतयैव वा व्यपदेष्टुं शक्यः । विनिगमकाभावात् । नापि शब्दशक्तिमूलकार्थ- शक्तिमूलकयोः संकरेण गतार्थयितुम् । व्यङ्गयभेद एव संकरस्येष्टेः । इह तु व्यङ्गयस्यैक्येन तस्यानुत्थानात् । उदाहरणम्- 'रम्यहासा रसोल्लासा रसिकालिनिषेविता । सर्वाङ्गशोभासंभारा पद्मिनी कस्य न प्रिया ।' अयं च वाक्यमात्रे । पदसमूहश्च वाक्यम् । तेनास्य नानार्थानानार्थ- मनोरथत्वेच्छात्वयोर्घटत्वकलशत्ववदेकत्वात् । इह तु भ्रान्तित्वसानन्दावलोकनत्वयो. र्व्याप्यव्यापकभावेन भेदादिति बोध्यम् । यथा तु येन रूपेण । एवमग्रेऽपि । दयि- तेति । कविप्रौढौक्तिनिष्पन्नालंकारेणालंकारस्य यथेत्यादिः । पूर्वोत्तरेति । लोकसि- द्धत्वाभावेन कविप्रौढोक्तिनिष्पन्नाभ्यामित्यादिः । अनुसंधानं ज्ञानम् । तत्प्रयुक्तात्तदसहि- ष्णुशब्दप्राचुर्यप्रयुक्तात् । प्रधानेति । तदुपकारकतयेत्यर्थः । च शब्दानामिति निर्धारणे षष्ठी। अयं द्वयुत्थो ध्वनिः। एवमग्रेऽपि। विनिगमनाविरहादाह-अर्थेति । गतार्थयितु. मिति शक्योऽयमित्यस्यानुषङ्गः । उदेति । द्वयुत्थध्वनेरित्यादिः। अत्र हासरसालिपद्मिनी- शब्दास्तदसहाः, अन्ये तत्सहा इति साम्यम् । तेन पदसमूहरूपवाक्यनिष्ठत्वेन । अस्य द्वगुत्थ.