पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १३९ घटितसमासविषयत्वेऽपि न विरोधः । न तु शुद्धैकपदे तस्मिन्नानार्थाना- नार्थयोरसमावेशात् । अन्ये तु- 'अर्थशक्तिमूलकत्वव्यपदेशे नानार्थप्र- काशकशब्दशक्त्युल्लास्यत्वसामान्यशून्यत्वं तन्त्रम् । विषयप्राचुर्यात् । शब्दशक्तिमूलकत्वव्यपदेशे तु नार्थशक्त्युल्लास्यत्वसामान्यशून्यत्वं तथा । विषयदौर्लभ्यापत्तेः । नहि नानार्थशब्दमात्रघटितं पद्यं प्रचुरविषयम् । अतः शब्दशक्तिमूलकत्वेनैवाय शक्यव्यपदेशो ध्वनिः' इत्यप्याहुः। इत्थ- मभिधामूलस्त्रिविधोऽपि संक्षेपेण निरूपितो ध्वनिः । निरूपयिप्यते चां- शतो यथावसरम् । लक्षणामूलस्तु निरूप्यते- तत्र वक्ष्यमाणलक्षणायां लक्षणायां प्रयोजनवत्याः षडिधायाः सारो- पसाध्यवसानाभ्यां गौणीशुद्धाभ्यां च विभक्तानां भेदानां चतुर्णामलंकारा- त्मना परिणतत्वाही भेदौ ध्वन्याश्रयतया स्थिती, जहत्स्वार्था अजह- त्वार्था चेति । तन्मूलौ च द्वौ ध्वनेः प्रभेदौ । तयोर्जहत्वार्थामूलो यथा- 'कृतं त्वयोन्नतं कृत्यमर्जितं चामलं यशः । यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ॥' इयं कस्यचिदपकारिणं प्रत्युक्तिः । त्वया कृतेऽप्यपकारे परमखेद- हेतौ मधुरमेव यो भाषे, न परुष तस्मिन्नेवंजातीयके मयि पापमाचरत- स्तव पापिष्ठत्वं कथं शक्यते वक्तुमिति व्यङ्गयम् । - ध्वनेः । न विरोध इति । तस्याप्यवान्तरपदत्वमादाय पदसमूहत्वादिति भावः । मा- त्रपदव्यावर्त्यमाह-न त्विति । सामान्यशून्यत्वमिति । सामान्याभाव इत्यर्थः । तथा तन्त्रम् । कारणमिति तदर्थः । अत इति । तथा वक्तुमशक्यत्वेन । तद्भिन्नत्व एव त- त्वस्यावश्यवक्तव्यत्वादित्यर्थः । अयं द्वयुत्थो ध्वनिः। उक्तरीत्या भेदसंभव एवात्रारुचिः । उपसंहरति-इत्थमिति । तत्र निरूपणीये तस्मिन् । वक्ष्यमाणेति। वक्ष्यमाणं लक्षणं यस्यास्तस्यामित्यर्थः । सत्यामिति शेषः । अलंकारात्मनेति। रूपकातिशयो- क्तिहेत्वलंकारात्मनेत्यर्थः । जहत्स्वार्था अजहत्स्वार्था चेति।अनयोरेवोपादानलक्ष- णलक्षणेति व्यवहारः कथं कीदृशम् । अत्रोन्नतादिपदानां स्वार्थत्यागेनाधमादौ लक्षणा।