पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १३७ कारा हि वाच्यसौन्दर्यसाराः प्रायशः स्वान्तर्गतं प्रतीयमानं पृष्ठतः कु- र्वन्ति । 'देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता- देवं जल्पन्ति तावत्प्रतिभटष्टतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ॥' अत्र कविप्रौढोक्तिसिद्धेन रूपकेण त्वय्युद्यतकरवाले सति का परेषां जीवनस्याशेति वस्तु व्यज्यते । 'साहंकारसुरासुरावलिकराकृष्टभ्रमन्मन्दर- क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वेकषाः । तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ॥ अत्र कीर्तेः सानन्दालोकनेन वस्तुना कविकल्पितेन दुग्धभ्रान्तिस्ता- पसगता व्यज्यते । न च सानन्दालोकनस्यैव चाक्षुषभ्रान्तिरूपतया व्य- ङ्गयव्यञ्जकयोरविवेको व्यङ्गयत्वानुपपत्तिश्चेति वाच्यम् । वस्तुन एक- त्वेऽपि कीर्तिरूपविशेष्यात्तिदुग्धप्रकारकत्वात्मकभ्रान्तित्वेन सानन्दा- वलोकनत्वेन च व्यङ्ग्यव्यञ्जकविवेकस्य व्यङ्गयतावच्छेदकरूपेण वा- च्यताया अभावाद्वयङ्गव्यत्वस्य चोपपत्तेः । तथा चाहुः-'यदेवोच्यते तदेव व्यङ्गयम् । यथा तु व्यङ्गचं न तथोच्यते' इति । योक्तेति। 'पर्यायोक्तं तु गम्यस्य वचो भङ्गयन्तराश्रयम् ।' इत्युक्तेरिति भावः । हि यतः । देवा इति । कविप्रौढोक्तिनिष्पन्नालंकारेण वस्तुनो यथेत्यादिः । के इति म. ध्यमणिन्यायेनान्वेति । पूर्वदेवा असुराः । समिति सङ्ग्रामे । मम पुरस्तादित्यन्वयः । नर इति जसन्तम् । मुग्धेति । मुग्धरूपशत्रुसंबन्धिप्राणरूपदुग्धभोजनकृतस्निग्धका- न्तिरित्यर्थः । रूपकेण खङ्गसर्परूपकेण । साहंकारेति । कविप्रौढोक्तिनिष्पन्नवस्तुना अलंकारस्य यथेत्यादिः । व्याख्यातमिदमधस्तात् । अविवेकोऽभेदः । इदं च व्यङ्गयत्व- मभ्युपेत्य वस्तुनस्तदेव नेत्याह-व्यङ्गयत्वेति । वाच्यत्वात्तस्येति भावः । कीर्तीति । यथासंख्यमन्वयः । उपपत्तेरिति । 'शयिता सविधे-' इत्यत्र । 'ध्यङ्गथतावच्छेदके- च्छात्वरूपजातिरूप' इति पाठः । तेन रूपेणैव मनोरथपदेन बोधनान्न पूर्वग्रन्थविरोधः ।