पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १३५ 'न मनागपि राहुरोषशङ्का न कलङ्कानुगमो न पाण्डुभावः । उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम् ॥' अत्र राहुरोषशङ्काभावादिभिर्निरपेक्षैर्वस्तुभिर्व्यतिरेकालंकारो व्यज्यते । 'नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणघुतिः ॥' अत्र युगान्तदहनोपमया यदैव तव कोपोदयस्तदैव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तु व्यज्यमानं राजविषयकरतिभावेऽङ्गमपि वाच्या- पेक्षया सुन्दरत्वाङ्ब्रवनिव्यपदेशहेतुः । न च भस्मीकरणपटुत्वरूपस्य सा- धारणधर्मस्योपमानिष्पादकत्वाद्वयङ्गयस्य वाच्यसिद्धयङ्गत्वं शङ्कयम् । उपात्तशोणत्वरूपसाधारणधर्मेणापि तन्निष्पत्तेः संभवात् । उपमेयीभूतशो- णघुतिगतस्य भस्मीकरणपटुत्वरूपसाधारणधर्मस्योपमानिष्पादकत्वेऽप्युप- मेयव्यङ्गन्यकोपगतभस्मीकरणपटुत्वस्यातथात्वाच्च । यथा वा- 'निभिद्य क्ष्मारूहाणामतिघनमुदरं येषु गोत्रां गतेषु द्राघिष्ठस्वर्णदण्डभ्रमभृतमनसो हन्त धित्सन्ति पादान् । यैः संभिन्ने दलाग्रप्रचलहिमकणे दाडिमीबीजबुद्ध्या चञ्चूचाश्चल्यमञ्चन्ति च शुकशिशवस्तेऽशवः पान्तु भानोः ॥ वर्धते । नदन्तीति । स्वतः संभव्यलंकारेण वस्तुनो यथेत्यादिः । मदशब्दे अर्शआ- द्यच् । बिरुदावली स्तुतिपरम्पराम् । अहितमन्दिरे शत्रुगृहे । तदवधि तावत्पर्यन्तम् । एवमग्रेऽपि । उपमयेति । वाच्ययेति शेषः । व्यङ्गयस्येति । तच्छरीरनिविष्टत्वादिति भावः । तन्निष्पत्तैरुपमानिष्पत्तेः । विनिगमनाविरहेऽप्याह-उपमेयीभूतेति । उपमाया वाच्यत्वेन तदवस्थायां यदुपमेयं तद्गतधर्मस्यैव तन्निष्पादकत्वम् । न तूपमेयभू. तोपमाव्यङ्गयरूपकोपगतस्य तद्धर्मस्य । तदा तस्यानुपस्थितेः । तथा च यस्य तन्निष्पाद- कत्वं न तस्य व्यङ्गयत्वम्, यस्य तत्त्वं न तस्य तत्त्वम् । सोऽनुपात्त इत्यन्यदस्योदाहर- णान्तरमाह-यथा वेति । ते रविकिरणा युष्मान्पान्तु । के । येषु तरूणामतिनिबि- डमन्तःप्रदेशं विदार्य भूमि गतेष्वतिदीर्घसुवर्णदण्डसंबन्धि भ्रमेण भृतं पोषितं मनो येषां