पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ काव्यमाला। व्यङ्गयत्वं वा युक्तम् । अनेकजन्मोपभोग्यदुःखसुखराशिभ्यां तदप्राप्ति- महादुःखतच्चिन्ताविपुलाहादयोरनिगरणेऽशेषपापपुण्यपुञ्जनाशकताया अ- नुपपत्तेः । तत्तदुःखसुखानां स्वस्वफलोपहितपापपुण्यनाशकताया एवा- न्यत्र कृलृप्तत्वात् । निगरणे तु तयोस्तन्नाशकताबुद्धयुपपत्तिः । न च वस्तुमात्राभिव्यक्तस्यालंकारस्य न गुणीभूतव्यङ्गयत्वम् । 'व्यज्यन्ते वस्तुमात्रेण यदालंकृतयस्तया । ध्रुवं ध्वन्यङ्गता तासां काव्यतृत्तेस्तदाश्रयात् ॥' इति सिद्धान्तादिति वाच्यम् । बाधके दृढे सिद्धान्तमात्रेणात्र ध्वनि- त्वस्य स्थापयितुमशक्यत्वादिति चेत् । सत्यम् । यादृशव्यङ्गयप्रतिपत्ति विना यत्र वाच्यस्य सर्वथाप्यनुपपत्तिस्तत्र तद्वाच्यसिद्धचङ्गम् । यत्र च प्रकारान्तरेणापि तस्योपपत्तिः शक्या कर्तुं न तत्र तथा । अन्यथा हि 'निःशेषच्युतचन्दनं स्तनतटम्' इत्यत्राधमत्वसिद्ध्यङ्गत्वाहूतीरमणस्य वाच्य- सिद्ध्यङ्गगुणीभूतव्यङ्ग्यत्वापत्तेः । प्रकृते च भगवन्नाम्नि योगसिद्धितादा- त्म्याध्यवसायरूपामतिशयोक्तिं विनापि भगवन्नामोच्चारणमाहात्म्यप्राप्त- सार्वज्ञबुद्ध्यापि प्रश्नोपपत्तेर्न गुणीभूतव्यङ्गत्वम् । एतेनासंबन्धे संबन्ध- रूपातिशयोक्तिर्नामोच्चारणमाहात्म्यप्रभवसार्वज्ञाध्यवसायेऽपि स्थितेति स दोषस्तदवस्थ इति परास्तम् । भगवन्नामोच्चारणस्याचिन्त्यमाहात्म्यतायाः पुराणप्रसिद्धत्वात् । अथ वा मास्तु प्रागुक्तमुदाहरणं वस्तुनोऽलंकारव्यन्ज- कतायाः, इदं तु भविष्यति- षपातका । तच्चिन्ताविपुलाह्रादक्षीणपुण्यचया तथा ॥ चिन्तयन्ती जगत्सूतिं परब्रह्म- स्वरूपिणम् । निरुच्छवासतया मुक्तिं गतान्या गोपकन्यका ॥' जगत्सूर्ति श्रीकृष्णम् । तत्संभोगाप्राप्त्या महादुःखम् । तच्चिन्तया विपुलाह्लादः । नास्य 'प्राणाः समुक्रामन्ति अत्रैव समवलीयन्ते' इति श्रुतेर्मोक्षकाले निरुच्छ्वासता । चयशब्दार्थमाह-पुञ्जेति। स्वस्वेति । तत्तदुःखसुखरूपफलजनकेत्यर्थः । तासामलंकृतीनाम् । अत्र प्रकृतलक्ष्ये । तथा च सिद्धान्तोऽन्यविषयक इति भावः । तथा वाच्यसिद्ध्यङ्गम् । वाच्येति । वाच्य- सिद्ध्यङ्गरूपं यद्रुणीभूतव्यङ्गयं तत्त्वापत्तेरित्यर्थः । यथा चात्र प्रकारान्तरेणाधर्मत्वसिद्धि- स्तथा स्पष्टमधस्तात् । सार्वज्ञेति । सर्वज्ञतेत्यर्थः । स्थितेति । सर्वज्ञत्वासंबन्धे त- त्कल्पनादिति भावः । स दोषो गुणीभूतव्यङ्गयत्वापत्तिरूपदोषः । पुराणेत्युपलक्षणं श्रु- त्यादेरपि । तथा च वस्तुतस्तत्सतैव, न कल्पनमिति । न संबन्धातिशयोक्तिरिति भावः । अभ्युपेत्याप्याह-अथवेति । अनुगमः संबन्धः । पाण्डुभावः पाण्डुत्वम् । उपचीयते ।