पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १३३ रोमणित्वादि विशेषणश्रवणविशिष्टप्रफुल्लविलोचनत्वेन मदुपभोग्यत्वलक्षण- विभावाभिव्यक्त्तिद्वारा हर्षभावोऽभिव्यज्यते । तत्र द्वारीभूतविभावाभि- व्यक्तिमादाय काव्यप्रकाशग्रन्थसंगतिः । न च भावध्वनेः संलक्ष्यक्रमत्वा- पत्तिः, द्वारस्य संलक्ष्यक्रमत्वादिति वाच्यम् । इष्टापत्तेः । न चापसि- द्धान्तः । तस्य प्रागेवोद्धारात् । 'मृद्दीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः । तत्त्वं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥' अत्र निष्कृष्टजीवसंबोध्यकपरिदृश्यमानस्थूलदेहेन्द्रियादिचेतनाचेत- नसंघातात्मकास्मत्पदबोध्यकर्तृकप्रश्नविषयेणार्थेन वस्तुना तथाभूतेन भग- वन्नाम्नोऽनेकजन्मत्तान्ताध्यक्षीकरणकारणयोगसिद्धिविशेषतादात्म्याध्य- वसायरूपातिशयोक्तिर्व्य॑ज्यते । अथ प्रश्नविषयस्यात्र नानाजन्मगतवृ- त्तान्तरूपतया तज्ज्ञं प्रत्येव प्रष्टुमौचित्येनानभिज्ञं स्वजीवं प्रति प्रष्टुमयो- ग्यत्वात्प्रश्नान्यथानुपपत्त्या आक्षिप्ता वाच्यसिद्धयङ्गत्वेन गुणीभूतव्यङ्गय- रूपा वा प्रागुक्तातिशयोक्तिरिह कथं ध्वनिव्यपदेशहेतुः स्यात् । इत्थमेव च 'तदप्राप्तिमहादुःख-' इत्यत्राप्यतिशयोक्र्थापत्तिविषयत्वं गुणीभूत- यस्तादृशपरिफुल्लविलोचनीत्वरूपो धर्मस्तेनेत्यर्थः । तस्यैकपदाबोध्यत्वादर्थवशप्रापितेत्यु. क्तम् । विभावेति । हर्षभावविभावेत्यर्थः । भावध्वनेर्हर्षभावध्वनेः । द्वारस्य तद्वि- नाभावाभिव्यक्तिरूपस्य । तस्योति । अपसिद्धान्तत्वस्येत्यर्थः । तथा च सिद्धान्त एवायमिति भावः । मृद्धीकेति । स्वतः संभविवस्तुनालंकारध्वनिर्यथेत्यादिः । मृद्वीका द्राक्षा । सिता खण्डं शर्करा । स्वार्यातेन स्वर्ग प्रति गतेन । अपेः समुच्चेयमाह -रम्भेति । भूयः पुनः । अयं सांप्रतमनुभूयमानः । निष्कृष्टेति । परिदृश्यमानैतच्छरीरादि पृथ. कृतेत्यर्थः । तत्त्वं च तस्य भवता मदीयेत्याभ्यामाविष्कृतम् । अर्थेन मधुरिमोद्गारलक्षण- रूपेण तथाभूतेन स्वतः संभविना । नाम्न इत्यस्य तादात्म्याध्यवसायेत्यत्रान्वयः । अनेक- जन्मस्ववृत्तान्तप्रत्यक्षीकरणे कारणभूतो यो योगाभ्यासजन्यसिद्धिविशेष इत्यर्थः । अर्थापत्तेर्मानान्तरत्वाभावादाह-वाच्येति । तदेति। तदप्राप्तिमहादुःखविलीनाशे- १. क्ष्लोकद्वयं विष्णुपुराणे पञ्चमांशे त्रयोदशेऽध्याये (२१।२२) वर्तते. उदाहृतं च काव्यप्रकाशे चतुर्थोल्लासे.