पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। संभविभिरासन्नसरसिजोत्पत्तिध्वननद्वारा शरदागमनैकव्यरूपं वस्तु व्य- ज्यते । काव्यप्रकाशे तु–'अरससिरोमणि धुत्ताणं अग्गिम-'इत्या- घुदाहृत्य 'ममैवोपभोग्य इति वस्तु व्यज्यते' इत्युक्तम् । तत्र केन वस्तु- नेदं वस्तु व्यज्यते । न तावदलसशिरोमणित्वादिकान्तविशेषणैः । तेषां धात्र्यादिष्टद्धस्त्रीनिरूपितत्वेन तवैवोपभोग्य इत्यादिरूपेणैव व्यङ्गयस्य वक्तव्यतापत्तेः । विशेषणानां कामिनीनिरूपितत्वे तु ममैवेत्यादि व्यङ्गया- कारः स्यात् । नापि परिफुल्लविलोचनत्वेन । तस्य हर्षभावानुभावत्वेन ह- र्षव्यञ्जकताया एव कलृप्तत्वात् । मदुपभोग्यत्वं हि हर्षभावस्य विभावः । नह्यनुभावैर्भावो व्यज्यत इति तद्विभावव्यञ्जनं शक्यं वक्तुम् । केवलस्य परिफुल्लविलोचनत्वस्य ममैवेत्यादि व्यङ्गयव्यञ्जने सामर्थ्याभावात् । पु- त्रागमनधनप्राप्त्यादिविभावकेऽपि हर्षभावे परिफुल्लविलोचनताया अनै- कान्तिकत्वादिति । सत्यम् । 'इयभणिम्मि' इत्याद्यर्थवशप्रापितालसशि- इति भावः । आसन्नेति । शीघ्रभाविनी या कमलानामुत्पत्तिस्तद्वयञ्जनेत्यर्थः । अर. सेति । 'अलसशिरोमणिधूर्तानामग्रणीः पुत्रि धनसमृद्धिमयः । इति जल्पितेन नताङ्गी प्रफुल्लविलोचना जाता ॥' पतिवरां प्रति धात्र्याः प्ररोचनोक्तिः पूर्वार्धम् । उत्तरार्धे तु कविवाक्यम्। हे पुत्रि, अयं वरः निरुद्योगिश्रेष्ठो धूर्तश्रेष्ठः प्रचुरधनसमृद्धिः, इति भाषि- तेन लज्जया नताङ्गी काचित्कन्या हर्षविकसितलोचना जातेत्यर्थः । अत्रालसत्वेन ना- यिकान्तरागमनं सूच्यते । धूर्तत्वेन रतेष्वनादृतगुणत्वम्, धनिकत्वेन कृपणतयादातृत्वं च सूचितं सत् अन्यासामनाकर्षणीयत्वं मदुपभोग्यत्वं च व्यनक्ति । तद्विषयकं च कुमार्या ज्ञानं प्रफुल्लनयनत्ववत्त्वेन वस्तुना स्वहेतुहर्षव्यञ्जनद्वारेण तत्कारणीभूतं सामाजिकेषु व्य. ज्यते।केचित्तु–'अलसत्वेन धनिकत्वेन चाप्रवासिल्वम्, धूर्तत्वेन संभोगेष्वतृप्तत्वम्, धनि. कत्वेन नानाधनदातृत्वमपि नताङ्गित्वेन नमस्कारः तेन स्वस्याप्यमानिनीत्वम् , प्रफुल्लनयन- त्वेन हर्षः तेन ममैवोपभोग्यो नाविदग्धाया इति वस्तुव्यञ्जनम्' इत्याहुः। तेषां विशेषणानां निरूपितत्वेन कथितत्वेन । एवमग्रेऽपि । परीति । अस्य कामिनीनिष्ठत्वादिति भावः । तस्योति । परिफुल्लविलोचनात्वस्य हर्षाख्यव्यभिचारिभावकार्यत्वेनेत्यर्थः । कार्येण का- रणानुमानस्य प्रसिद्धत्वादिति भावः । विभावः कारणम् । तत्सत्त्व एव हर्षोदयात् । न- हीत्यस्य वक्तुं शक्यमित्यत्रान्वयः । तद्विभावेति । भावविभावेत्यर्थः । हिसूचितमश- क्यत्वे हेतुमाह-केवलस्येति । विशिष्टस्य तत्वस्य सिद्धान्ते वक्ष्यमाणत्वादिदं विशे. षणम् । विलोचनताया इति । सत्त्वेन तस्या इति शेषः । अनैकान्तिकत्वाव्घभि- चरितत्वात् । इयभणीति । इति भणितेनेत्याघुत्तरार्धस्य योऽर्थस्तदुद्देशेन प्रापितो