पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। च्यम् । उदासीने वक्तरि तत्वार्थकथनपरस्यास्य पद्यस्य वक्तृगतरतिव्यञ्ज- कत्वासंगतेः, गुणीभूतस्यार्थस्य वाच्यार्थापेक्षया प्रधानतया ध्वनिव्यपदेशहे- तुतायाः प्राचीनैः स्वीकाराच्च । अन्यथा- 'निरुपादानसंभारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाक्ष्लाध्याय शूलिने ।' इत्यत्र व्यतिरेकध्वनित्वं तैरुक्तमसंगतं स्यात् । व्यतिरेकस्य भगवद्वि- षयकरतिभावाङ्गताया अनुभवसिद्धत्वात् । शब्दशक्तिमूलवस्तुध्वनिर्यथा- 'राज्ञो मत्प्रतिकूलान्मे महद्भयमुपस्थितम् । बाले वारय पान्थस्य वासदानविधानतः ॥' अत्रोपभोगं देहीति वस्तु राजपदशक्तिमूलानुरणनविषयः। राजपदा- चन्द्रोपस्थितावेव चन्द्रजनितभयवारणकारणत्वेनोपभोगस्याभिव्यक्तेः । न चात्र नृपचन्द्रयोरुपमानोपमेयभावः, भेदापोहरूपं रूपकं वा तथास्त्विति वाच्यम् । इह नृपरूपस्यार्थस्य चन्द्ररूपार्थगोपनमात्रार्थमुपात्तत्वेन युग- पदुल्लसितोपमानोपमेयकयोरुपमारूपकयोस्तात्पर्यविषयताया अयोगात् । न चासंसृष्टार्थद्वयबोधने वाक्यभेद इति वाच्यम् । तुल्यकक्षतया द्वयोरसं- सृष्टयोरर्थयोः प्रतिपिपादयिषितत्व एव तस्याभ्युपगमात् । इह त्वाच्छाद- कप्रतीतिसमये आच्छाद्याप्रतीतिः, आच्छाद्यप्रतीतौ चाच्छादकन्यग्भाव एवेति नास्ति तुल्यकक्षता। शेषः । उदासीने रतिरोषोभयानाविष्टे । सतीति शेषः । अन्यथा तथानङ्गीकारे। निरु- पेति । उपादानसंभार उपकरणसमूहस्तू लिकादिकं तद्रहितं यथा स्यात्तथा अभित्तावेव शून्य एव चित्रं नानाकारं जगत्तन्वते तस्मै अनिर्वचनीयस्वरूपाय, कला चन्द्रस्य षोडशो भागस्तेन क्ष्लाध्याय शूलिने महादेवाय नमः । पक्षे चित्रमालेख्यम् । कला आलेख्य- क्रिया कौशलं च । तैः प्राचीनैः । राज्ञ इति । हे बाले, त्वं मत्प्रतिकूलाद्राज्ञः सकाशादु- पस्थितं महत्पान्थस्य मम भयं वासदानविधानतो वारयेत्यन्वयः । वासश्च दानं चेत्यर्थः । भेदापोहेति । अभेदैत्यर्थः। तथास्तु अनुरणनविषयोऽस्तु । तथा च तादृशालंकारध्वनेरे- वोदाहरणम्, न वस्तुध्वनेरिति भावः । युगपदुल्लसिते उपमानोपमेये ययोस्तयोरित्यर्थः । तस्य वाक्यभेदस्य । आच्छादकेति । नपरूपार्थेत्यर्थः । आच्छाद्येति । चन्द्ररूपार्थे- त्यर्थः । शक्तिनियमेनेति भावः । अत्र बाले इति पदेन व्यङ्गयस्य वाच्यादुपमानताकर.