पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ननु 'मृणालवलयादि दवदहनराशिः' इत्यत्र विरोधाभासस्य कथं वाच्या- लंकारत्वम् । विरोधांशस्य शब्दवाच्यताविरहेण व्यङ्गयताया एवाभ्युपग- न्तव्यत्वात् । न च विरोधविशिष्टाभेदस्य संसर्गत्वाद्वाच्यार्थबोधविषयतया विरोधस्य वाच्यत्वमिति वाच्यम् । विरोधाभेदयोः परस्परविरुद्धत्वेनैककाला- वच्छेदेनैकसंसर्गत्वस्यानुपपत्तेः । नानार्थयोरभेदस्यैव संसर्गतया विरोधस्या- पि संसर्गत्वे मानाभावाच्च । पर्यन्ते दवदहनराशिपदस्य सदृशलाक्षणिकतया विरोधांशस्य तिरोधानाच्च । मैवम् । उक्तपद्यस्य विरोधोदाहरणतामात्रे तात्प- र्यात् । व्यङ्गयत्वेऽपि तथात्वस्यानपायात् । वाच्यविरोधोदाहरणतायां त्व- पिरन्तर्भाव्यः। केचित्तु-विरोधांशस्य व्यङ्गयत्वेऽपि विरोधिद्वयस्य वा- च्यतामात्रेण विरोधाभासस्य वाच्यालंकारव्यपदेशोपपत्तिः। इत्थमेव चांशा- न्तरस्य व्यङ्गत्वेऽप्येकांशमादाय समासोक्त्यादीनामपि वाच्यालंकार- व्यपदेशः' इत्याहुः। यथा वा- 'कृष्णपक्षाधिकरुचिः सदासंपूर्णमण्डलः । भूयोऽयं निष्कलङ्कात्मा मोदते वसुधातले ।' अत्र भगवत्पक्षाधिकप्रीत्यादिलक्षणे प्रकृतभूपोपयोगित्वात्प्रकृतेऽर्थे श- क्त्या प्रतीतिपथमवतीर्णे द्वितीयोऽर्थोऽप्रकृतोवैधात्मा तत्प्रयुक्तो व्यतिरे- कश्च । न चात्र व्यतिरेकस्य कविगतराजविषयकरतिभावोत्कर्षकतया गुणीभू- तस्य कथं ध्वनिव्यपदेशहेतुत्वम्, प्रधानस्यैव ध्वनिव्यपदेशहेतुत्वादिति वा- ननु तादात्म्यवदुपपत्तिः स्यादत आह-नानार्थयोरिति । संसर्गत्वे तद्धटकत्वे । तादात्म्यस्य संसर्गत्वं तु तन्त्रान्तरे प्रसिद्धमिति भावः । ननु प्रतीत्यन्यथानुपपत्तिरेव मानमत आह-पर्यन्त इति । पर्यवसान इत्यर्थः । मात्रपदेन वाच्यत्वनिरास: । अ- न्तर्भाव्यः मृणालेत्यादौ । शब्दशक्तिमूलालंकारान्तरध्वनिमुदाहरति-यथा वेति । भगवत्पक्षेऽधिका प्रीतिर्यस्य । सद्भिरा समन्तात्परिपूर्ण मण्डलं यस्य । निष्कलङ्कः प- वित्र आत्मा यस्य सोऽयं भूपो भुवि मोदत इति प्रकृतोऽर्थः । कृष्णपक्षेऽसितपक्षेऽधि. करुचिः । सदा सर्वकाले संपूर्णमण्डलः । निष्कलङ्कः कलङ्कशून्य आत्मा यस्य सोऽयं भुवि मोदत इति चन्द्रवैधर्म्यात्माप्रकृतोऽर्थः । यद्वा कृष्णपक्षे पापकर्मण्यधिकरुचिः । सदा सं(१) यथा तथा पूर्ण मण्डलं यस्य । निष्कलङ्कोऽत्यन्तकलङ्क आत्मा यस्य सोऽय- मित्यप्रकृतोऽर्थः । तत्प्रेति । अप्रकृतार्थप्रयुक्तव्यतिरेकालंकार इत्यर्थः । व्यज्यत इति