पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ काव्यमाला। क्त्तेरपि ध्वनिव्यपदेश्यत्वापत्तेः । अन्यच्च-क्ष्लेषे हि क्ष्लेषभित्तिकमभेदा- ध्यवसानं द्वयोरर्थयोरिति सकलालंकारिकनिबद्धम्, अनुभवसिद्धं च । तत्र मूलान्वेषणे विधीयमाने एकपदोपात्तत्वान्न शक्यते मूलमन्यन्निर्वक्तुम् । एकपदोपात्तो ह्यनेकोऽप्यर्थोऽभिन्नतयैव भासते । इत्थं च 'उल्लास्य कालकरवाल-' इत्यादावप्येकपदोपात्ततया द्वयोरर्थयोरभेदाध्यवसानस्य युक्तत्वेनाभेदस्यैव व्यङ्गयत्वमुचितम्, नोपमायाः।क्ष्लेषे द्वयोरर्थयोर्वाच्यत्वम्, एककालत्वं च । इह त्वेकस्य वाच्यत्वम्, अपरस्य व्यङ्गयत्वम्, भिन्नकालत्वं चेति । एतावन्मात्रेणैवैकपदोपात्तत्वप्रयुक्तमभेदाध्यवसानं न शक्यं त्यक्तुम् । व्यङ्गताया भिन्नकालत्वस्य चाभेदप्रतिपत्तावबाधकत्वात् । एतेन 'रूपक- स्योपमाज्ञानाधीनज्ञानत्वेन प्रथमोपस्थिततया तस्या एव संवन्धत्वं कल्प्यम्' इति काव्यप्रकाशटीकाकारैरुक्तं नातीव, श्रद्धेयमिति । प्रकृतमनुसरामः । एवमलंकारान्तरमपि शब्दशक्तिमूलानुरणनस्य विषयः । यथा यमुना- वर्णने—'रविकुलप्रीतिमावहन्ती नरविकुलप्रीतिमावहति । अवारितप्रवाहा सुवारितप्रवाहा।' इह नराणां वीनां च कुलस्य प्रीतिमावहतीति प्रकृते- ऽर्थे सिद्धे रविकुलप्रीतिं नावहतीति द्वितीयोऽप्रकृतोऽर्थः, विरोधश्च । एव- मन्यत्रापि । यदि तु रविकुलप्रीतिमावहन्त्यपि न रविकुलप्रीतिमावहति । अवारितप्रवाहापि सुवारितप्रवाहा इत्यपिरन्तर्भाव्यते तदा विरोधांशस्या- पिनोक्तत्वाद्वितीयार्थस्य च तदाक्षिप्तत्वान्न ध्वनित्वम् । निपातानां द्योत- कतानयेऽपि स्फुटद्योतितस्य तदाक्षिप्तस्य च वाच्यकल्पत्वान्न तथात्वम् । त्यर्थः। प्राचोक्तमुपमालंकारध्वन्युदाहरणं खण्डयति-अन्यच्चेति । किं चेत्यर्थः । श्लेष- भित्तिकं तन्मूलकम्। विधीयमान इति । क्रियमाणा इत्यर्थः । एकपदोपात्तत्वादन्य- दित्यन्वयः । इह तु 'उल्लास्य-' इत्यादौ तु । इतिः पूर्वग्रन्थसमाप्तौ । अलं- कारान्तरमिति । उपमातिरिक्तमपोत्यर्थः । रवीति । सूर्यवंशप्रीतिं मनुष्य. पक्ष्युभयसमूहप्रीति च । अवारीति । अप्रतिबद्धप्रवाहा । शोभनं वाजलं तत्संजातं यस्य तादृशः प्रवाहो यस्याः सा विरोधश्चेति । अलंकारो ध्वन्यत इति शेषः । द्वि- तीयार्थस्य चाप्रकृतार्थस्य च । तदेति । अपिबोध्यविरोधेत्यर्थः । ननु निपातानां द्योतकत्वेनोक्तत्वाभावाद्धवनित्वमेवात आह-निपातानामिति । तथा च द्योतकत्वं विलक्षणमिति भावः । न तथात्वं न ध्वनित्वम् । प्राचीनोदाहरणे शङ्कते- नन्विति।