पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । १२७ पिताया उपमायाः प्रकृतधर्म्युपकारकत्वं वार्यते । येन गुणीभूतव्य- ङ्गचत्वं न स्यात् । न चात्रोपमादीनामलंकाराणां स्वभावतः सुन्दरत्वात्का- व्यप्रवृत्युद्देश्यतया च वस्तुमात्रे गुणीभावो न संभवति । यथा वस्तुमात्रे- णाभिव्यक्तानामलंकाराणाम् । तुल्यन्यायत्वात् । अप्रकृतव्यवहारस्य तु समासोक्त्यवयवस्य निरलंकारतया वस्तुन्युपस्कारकत्वं समासोक्तावविरुद्ध- मिति वाच्यम् । एवमपि 'बाधेऽहढेऽन्यसाम्यात्कि दृढेऽन्यदपि बाध्य- ताम्' इति न्यायेनोक्तयुक्तेः शिथिलत्वात्, अपराङ्गताया दुरपह्नवात् । अथोच्यते-उपमानमुपमेयं साधारणो धर्म इति ह्युपमाशरीरघटकम् । न तु ततः पृथग्भूतम् । तैर्विना तस्या अनिष्पत्तेः । इत्थं चोपमेयस्य साह- श्यांशेनोपस्कारेऽप्युपमाया नापराङ्गत्वम् । उपमेयस्यापरत्वाभावात् । यथा समासोक्तावप्रकतव्यवहारेण प्रकृतस्योपस्करणेऽपि न समासोक्तेर- पराङ्गत्वम् । प्रकृताप्रकृतघटितत्वात् । एवमिहापि स्यादिति । तथापि स- मासोक्तरिवास्यापि प्रभेदस्य गुणीभूतव्यङ्गयत्वापत्तेः, अस्यैव वा समासो-

रस्यापि शृङ्गारादेः क्वचिद्रुणभावदर्शनादाह-काव्यप्रवृत्त्युद्देश्यतया चेति । अ. न्यथा नानार्थशब्दघटितकाव्यकरणरूपकविप्रयासानर्थक्यापत्तिरिति भावः । वस्तुमात्रे प्र. कृतार्थे । यथा वस्तुमात्रेति । 'वीररुद्रभटान्दृष्ट्वा जयलक्ष्मीसमावृतान् । रणे कर्ष- न्त्यरिवधूकेशांस्ते कण्टकिद्रुमाः ॥' इत्यादाविति भावः । तुल्येति । उक्तहेतोस्तुल्य- त्वादित्यर्थः । अनलंकारत्वेऽवयवत्वं हेतुः । अदृढे इति च्छेदः । सादृश्यांशेन तद्रूपोपमा- ङ्गेनोपमानेन । उक्तमेवार्थ विशदयति- यथेति । गुणीभूतव्यङ्गत्वापत्तेरिति । अयं भावः - विशिष्टस्योपमाशरीरत्वेऽपि उपमेयांशस्य न व्यङ्गथत्वम् । शक्त्यैव तल्लाभात् । एवं च तद्धटकव्यङ्गयांशस्य तदघटकवाच्यादनतिशायित्वेन गुणीभूतव्यङ्गयत्वं दुर्वार. मिति । अत्र वदन्ति-अलंकाराणामुद्दीपनविधया रसाधुपयोगित्वेनालम्बनोपेक्षयोद्दीपने- ऽधिकचमत्कारित्वस्य सर्वानुभवसिद्धतया करतलेतिपदवाच्यालम्बनविभावापेक्षयातिशा- यित्वावनित्वमव्याहतमेव । रसाद्यपेक्षया गुणीभूतव्यङ्गत्वं त्विष्टमेव । समासोक्तौ तु 'आ- गत्य संप्रति वियोगविसंष्ठुलाङ्गीम्' इति सखीशिक्षावाक्येऽप्रकृतनायकवृत्तान्ताध्यारोपं विना तदनुपपत्तेर्गुणीभूतव्यङ्गयत्वं स्पष्टमेव । यत्र तु तस्यापि रसाघुपस्कारकतया वा- च्यादतिशयितत्वं प्रागुक्तरीत्या तत्रास्तु नाम ध्वनित्वं तस्याः । न चैवमप्युपमाकृतोत्कर्ष- मादायास्तु ध्वनित्वम्, अलंकारध्वनिरिति तु कथमिति वाच्यम् । अलंकारकृतोत्कर्षध्व- नावेवालंकारध्वनिरिति व्यवहारादिति विनिगमनाविरहात् । अस्यैव वेति । प्रभेदस्यैवे-