पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२६ काव्यमाला। थाकथंचिदुपपाद्यते, तदा प्रायशो लिङ्गभेद एव । एतेन तु सर्वथैव ततः रचतन्त्रा इति बोध्यम् । तत्र शब्दशक्तिमूलालंकारस्य ध्वनिर्यथा- 'करतलनिर्गलदविरलदानजलोल्लासितावनीवलयः । धनदाग्रमहितमूर्तियतितरां सार्वभौमोऽयम् ॥ अत्र राजप्रकरण करदानधनदसार्वभौमशब्दानां शक्तौ संकोचिताया- मपि तन्मूलकेन ध्वननेन प्रतीयमानस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा भूदिति प्रकताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यत इत्युपमालंकारध्वनिः । अथ क्ष्लिष्टविशेषणायां समासोक्त्तौ व्यङ्गयस्या- प्यप्रकृतव्यवहारस्य प्रकृतर्मिण्यारोप्यमाणस्य प्रकृतोपस्कारकतया यथा गुणीभूतव्यङ्गयत्वमेवमिहाप्युचितम् । न चोपमा प्रकृतार्थोपस्कारिका न भवतीति शक्यं वदितुम् । 'उल्लास्य कालकरवालमहाम्बुवाहम्', 'भद्रात्मनो दुरधिरोहतनोः, इत्यादौ प्राचीनानां पद्ये 'करतल-' इत्यादि प्रागुदाहृत- पद्ये च व्यङ्गयोपमया प्रकृतस्य राज्ञः प्रकर्षस्य सकलानुभवसिद्धत्वात्। अनुभवापलापे तु समासोक्तावप्यप्रकृतव्यवहारस्य प्रकतोपस्कारकत्वं नेति सुवचत्वात् । ननु समासोक्तावत्र चास्ति विशेषः । यत्तत्र व्यवहा- रिणो नानार्थशब्दानुपस्थाप्यत्वम्, इह तु तदुपस्थाप्यत्वम्, इति चेत्, किं । चातो नहि व्यवहारिणो नानार्थशब्दोपस्थाप्यतामात्रेणाप्रकृतर्मिनिरू- दाह-सर्वथैवेति । ततः लिङ्गात् । तत्र त्रयोदशभेदानां मध्ये । अलंकारस्येत्यस्यो- पमेत्यादिः । अविरलेति । संततेत्यर्थः । अवनीवलयः भूमण्डलः । धनदानामग्रे आदौ महिता पूजिता मूर्तिर्यस्य सः । अत्रेति । हस्तवितरणदाटजनभूपेष्विति भावः । तन्मू- लकेन शब्दशक्तिमूलकेन । अर्थान्तरेति । इन्द्रवृत्तान्तेत्यर्थः । षष्टपर्थे बहुव्रीहिद्वयम् । करतलमैरावतशुण्डागण्डस्थलम् । धनदः कुबेरः । अप्रस्तुतस्या- संबद्धस्य । क्ष्लिष्टेति । अयमैन्द्रीमुखं पश्य' इत्यादौ । व्यवहारस्य मुखचुम्बनादिरूपस्य । आरोप्येति । अन्यथा असंबद्धाभिधानं स्यादिति भावः । इहापि करतलेत्यादावपि । तथा च मध्यमकाव्यत्वम्, नोत्तमकाव्यत्वमिति भावः । व्यङ्गयोपमेति । व्यङ्गयरू- पोपमयेत्यर्थः । समासोक्तावपि उक्तरूपायाम् । अत्र च करतलेत्यादौ । एवमग्रेऽपि । व्य. वहारिणो जारादेः । तदुपेति । सार्वभौमोत । नानार्थपदोपेत्यर्थः । स्वभावसुन्द-