पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १२५ सार्थक्यात् । परमात्मनस्तु सर्वगस्य व्यावर्त्याभावात्तदुक्तिवैयर्थ्यापत्तेः । एवं 'वैकुण्ठे हरिर्वसति' इत्यत्रापि बोध्यम् । एकत्रार्थान्तरोपग्रहेऽधिकर- णोक्तिवैयर्थ्यम, अपरत्र तु तदधिकरणत्वाप्रसिद्धिरिति विशेषः । कालो दिवसादिः। 'चित्रभानुर्दिने भाति' इत्यादौ चित्रभान्वादिपदानां सूर्यादिषु । एवं 'चातुर्मास्ये हरिः शेते'। व्यक्तिः स्त्रीपुंनपुंसकलिङ्गानि । यथा-'मित्रो भाति', 'मित्रं भाति' इत्यत्र मित्रशब्दस्य पुंनपुंसके सुहृत्सूर्ययोः । एवं 'नभो भाति', 'नभा भाति' इत्यत्रापि । स्वर उदात्तादिः। यथा-'इन्द्रशत्रुः' इत्यत्र समासान्तोदात्तत्वमिन्द्रशत्रुशब्दस्येन्द्रस्य शत्रौ । पूर्वपदप्रकृतिस्वरप्राप्तमाघुदात्तत्वं विन्द्रशत्रुके । आदिना भयादिपरिग्रहः । यथा-'एद्दहमेत्तत्थणिआ' इत्यादौ । इहार्थ- सामर्थ्यौचितीनामुदाहरणेषु चतुर्थ्याद्यैस्तृतीयाद्यैरर्थसामर्थ्येन च बो- ध्यमानकार्यकारणभाव एव नियामकः । न तु वस्त्वन्तरम् । बोधकवैचि- त्र्याच्च नियामकस्य वैचित्र्येणोक्तिः प्राचाम् । वस्तुतस्तु संयोगादीनामर्था- न्तरसाधारणत्वे नानार्थशब्दस्यार्थविशेषे शक्त्तेः संकोच एव न संभवति । नियामकानामसंकुचितत्वात् । अथ प्रसिद्धत्वादिना तेषामसाधारणताबुद्धिर्य- अधिकरणोक्तीत्यर्थः । एकत्र आघे । अर्थान्तरेति । परमात्मवानरादीत्यर्थः । आ- दिभ्यां रात्रिवह्नयादिपरिग्रहः । शेते इत्यस्येत्यत्रापि बोध्यमिति शेषः । पुंनपुंसके पुन- पुंसकत्वे । सुहृत्सूर्ययोरिति । सूर्यसुहृदोरिति क्रमो बोध्यः । पाठ एव वेत्थम् । नभाः श्रावणः । एद्दहेति । 'एद्दहमेत्तत्यणिआ एद्दहमेत्तेहिं अच्छिवत्तेहिं । एद्दहमे- त्तावत्था एद्दहमत्तोहें दिअएहि ॥' 'एतावन्मात्रस्तनिका एतावन्मात्रैरक्षिपत्रैः । ए- तावन्मात्रावस्था एतावन्मात्रैदिवसैः ॥' [इति च्छाया।] अर्थसामर्थ्येन अर्थयोग्य- तया । यथासंख्यमन्वयः । बोधकवैचित्र्येऽपि पदार्थयोर्यः कार्यकारणभावस्तद्बोधकेत्यर्थः । नियामकस्य अर्थादेः । वैचित्र्येण भेदेन । प्राचामिति सूचितामरुचिमाह-वस्तुत- स्त्विति । साधारणत्वे सतीति शेषः । स्वारसिकत्वाभावादाह-यथाकथंचि- दिति । प्रागुक्तरीत्यार्थादीनामसंग्रहादाह-प्रायश इति। तेषामप्यन्तभीवसंभवा-