पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ काव्यमाला। सामर्थ्य कारणता। यथा-'मधुना मत्तः कोकिलः' इत्यत्र कोकिलमदजनकता मधुश- ब्दस्य वसन्ते । अत्र कोकिलमादने मधोरेव शक्तिर्न तु मधुनः । माद- कत्वं मधुन्यपीति न लिङ्गमिति वदन्ति । तत्र सामर्थ्ये लिङ्गान्तर्गतमेव कुतो न स्यात्, इति शङ्कायाः कथमेतदुत्तरं संगच्छते । न च मादनसाम- र्थ्यस्य सुरावृत्तितया नासाधारणधर्मतारूपं लिङ्गत्वमिति वाच्यम् । माद- नसामर्थ्यस्य सुरातृत्तित्वेऽपि कोकिलमादनसामर्थ्यस्य वसन्तासाधारण- तया लिङ्गस्य दुर्वारत्वात् । न च प्राणिमात्रमादनसामर्थ्यस्य मधुनः को- किलमादनसामर्थ्यमप्यस्तीति वाच्यम् । एवं सति सामर्थ्यस्य वाचकतानि- यामकत्वमसंगतं स्यात् । न तु मधुन इति स्वोक्तिविरोधश्च भवेत् । प्रसिद्ध्या- श्रये पुनर्लिङ्गत्वमप्रच्युतम् । शाब्दत्वाशाब्दत्वाभ्यामेकानेकपदार्थत्वाभ्यां वा विशेषस्तु स्यात् । औचिती योग्यता। यथा-'पातु वो दयितामुखम्' इत्यत्र दयितामुखकर्तृकरक्षणकर्मत्वा- क्षिप्तकामार्तानां संबोध्यपुरुषाणां त्राणं हि तस्याः सांमुख्येनैव भवति । न तु मुखमात्रेण । वैमुख्ये तेन त्राणायोगात् । अतस्त्राणार्हत्वं वदनसांमु- ख्योभयप्रत्यायकस्य मुखशब्दस्य । देशो नगरादिः। यथा-'भात्यत्र परमेश्वरः' इत्यादौ परमेश्वरादिशब्दस्य राजादौ । तस्य नगरादिसंबन्धतदभावयोः संभवेनाभावव्यातृत्त्यर्थमधिकरणकीर्तनस्य त्यायकस्य । गवेषणेऽन्वेषणे । तन्मूलोक्ते प्रकाशकारोक्ते। मधुनो मद्यस्य । वदन्तीतिसू. चितामरुचिमाह-तत्रेति । मधुनेत्युदाहरणविषयभूतमित्यर्थः । मादने करणे ल्युट् । वाचकतेति । शक्तीत्यर्थः । असाधारणत्वाभावादिति भावः । इष्टापत्तावाह-न त्विति । अप्रच्युतमिति । कोकिलमादनसामर्थ्यस्य वसन्त एव प्रसिद्धेरिति भावः। शाब्दत्वाशाब्दत्वाभ्यामिति । मधुकरणकमदाश्रयः कोकिल इति हि तत्र बोधः शाब्दः । कुपितो मकरध्वज इत्यत्र तु कोपाश्रयाभिन्नः इत्येव तथेति भावः । एवं भे. दस्य प्रागनुक्तत्वात्तत्रापि कोपसाधनोल्लेखस्य सुवचत्वाच्चाह-एकानेकति । आ- क्षिप्तति । विशेषरूपेण क्षिप्तेत्यर्थः । सांमुख्येन संमुखत्वेन । तेन मुखेन। तदुक्तीति ।