पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १२३ शब्दस्यान्यस्य संनिधिर्नानार्थपदैकार्थमात्रं संसर्यर्थान्तरवाचक- पदसमभिव्याहारः। यथा-'करेण राजते नागः' इत्यत्र करपदस्य नागपदमादाय, नाग- पदस्य च करपदमादाय शुण्डायां गजे च । न चात्रैकशब्दशक्तिनियमन- मपरशब्दशक्तिनियमोऽपेक्षते, येनान्योन्याश्रयः स्यात् । किं तु करनाग- शब्दयोरर्थान्तरग्रहणेऽन्वयानुपपत्त्या युगपदेव शक्तिर्नियम्यते । देवस्य पुरारातेरिति प्राचामुदाहरणे सुरत्वभूपत्वाभ्यां देवपदान्नगरारित्वासुरविशे- षारित्वाभ्यां पुरारातिपदाच्चोपस्थितेरुभयोरपि नानार्थत्वादर्थान्तरस्वीकारे- ऽप्यन्वयोपपत्तेश्च कथं शक्तर्नियमः स्यात् । न च पुरारातिपदं योगरूढम् । तथा च रूढेर्योगापहारितया शिवत्वेनैव तस्य बोधकत्वाद्देवपदशक्तिनियाम- कतेति वाच्यम् । पुरारातिपदस्य रूढौ मानाभावात् । अथ 'देवस्य त्रिपु- रारातेः' इति पाठस्तथापि पदान्तरोपस्थापितस्य त्रिपुरासुरवैरित्वस्य लि- ङ्गतया लिङ्गोदाहरणत्वमेवास्य स्यात् । न तु शब्दान्तरसंनिध्युदाहरणत्व- मिति वदन्ति । तत्रैकपदार्थः कोपादिः पदार्थान्तरेणानन्वित एव यः प्र- कृतशक्यधर्मताम्, शक्यान्तरव्यारत्ततां च भजते स लिङ्गपदेनात्रोक्त इति प्राचामाशये तु नोक्तदोषः । यत्तु 'शब्दस्याव्यभिचरितस्य संनिधिः सा- मानाधिकरण्यम्' इति काव्यप्रकाशटीकाकारैरुक्तम् । 'तत्तु करेण राजते नागः' इत्यादावव्यापनात्तन्नियामकान्तरस्य गवेषणे गौरवात्, 'कुपितो म- करध्वजः' इति तन्मूलोक्त्ते लिङ्गोदाहरणेऽतिव्यापनाच्चोपेक्ष्यम् । नियमनमिति शेषः । एवमग्रे सर्वत्र । न चेति । नहीत्यर्थः । अर्थान्तरेति । हस्तस- र्पेत्यर्थः। प्राचोक्तं खण्डयति-देवस्येत्यादि । वदन्तीत्यन्तेन । अर्थान्तरेति । भूप- नगरादिरूपेत्यर्थः । तस्य पुरारातिपदस्य । देवेति । पुरेत्यादिः । पदान्तरेति। त्रिपुरारातेरितीत्यर्थः । अस्य देवस्य । त्रिपुरारातेरित्यस्य । वदन्तीति सूचितामरुचि- माह-तत्रेति । 'देवस्य त्रिपुरारातेः' इति पाठे इत्यर्थः । प्रकृते च वैरित्वं त्रिपुरा- सुरान्वितमेव शक्यान्तरव्यावृत्तमतो न दोष इति भावः । वस्तुतस्तु त्रिपुरारातिपदस्य योगरूढत्वेन रूढयर्थान्वितत्रिपुरासुरवैरित्वस्य तत्पीड्यमानभूभृत्स्वपि सत्त्वेन शक्यान्तर- व्यावृत्तत्वाभावाच्च । एवं चैकपदार्थ इत्यस्य यथाश्रुतत्वमेवास्त्विति बोध्यम् । नोक्तदोष इति । शब्दान्तरसंनिध्युदाहरणत्वाभावरूपदोषो नेत्यर्थः । अव्यभिचरितस्यार्थान्तराप्र-