पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ काव्यमाला। प्रकरणादविशेषः । विरोधस्य प्रक्रान्तत्वेऽपि भार्गवकार्तवीर्ययोः शक्ति- नियमाधिकरणयोरप्रक्रान्तत्वात् । सहावस्थानलक्षणा विरोधिता तु छाया- तपावित्यादौ बोध्या। अर्थः प्रयोजनम् । चतुर्थ्याद्यभिधेयम् । यथा---'स्थाणुं भज भवच्छिदे' इत्यादौ भवच्छेदनादि स्थाणुपदस्य भवे । नन्वर्थस्य लिङ्गात्को भेदः । न च लिङ्गमनन्यसाधारणस्तद्धर्मः, अ- र्थस्तु तद्भजनादेः कार्यम्, न तु तद्गतो धर्म इति स्फुट एव भेद इति वा- च्यम् । भवच्छेदजनकभजनकर्मत्वस्य काष्ठावृत्तिभवधर्मत्वादिति चेत् । अत्राहुः-उक्तस्य विशिष्टधर्मस्य शाब्दबोधोत्तरभाविमानसबोधविषय- त्वेन प्रकृतशाब्दबोधाविषयत्वाल्लिङ्गतो वैलक्षण्योपपत्तिरिति लिङ्गं त्वेकप- दार्थः । कोपादिरनन्वित एव यः पदार्थान्तरेण प्रकृतशक्यधर्मतां शक्या- न्तरव्यारत्ततां च भजते । उक्तधर्मस्तु न तथेत्यपि केचित् । प्रकरणं वक्तृश्रोतृबुद्धिस्थता । यथा-राजानं संबोध्य केनचिदृत्येनोक्तम् 'सर्वं जानाति देवः' इति वाक्ये देवपदस्य युष्मदर्थे । लिङ्गं नानार्थपदशक्यान्तरात्तिरेकशक्यगतः सांक्षाच्छब्दवेद्यो धर्मः। यथा---'कुपितो मकरध्वजः' इत्यत्र कोपो मकरध्वजपदस्य । प्रक्रान्तत्वे एव प्रकरणस्य नियामकत्वमिति भावः । द्वितीयविरोधितोदाहरणमाह-स- हेति । आदिना तुमुनादिपरिग्रहः । छेदनादीत्यस्य प्रयोजनमिति शेषः । भवे । अभि- धानियामकमिति शेषः । अत्र तच्छब्दाः शिवपराः । काष्ठावृत्तीत्यनेनानन्यसाधारणत्वं सूचितम् । उक्तस्य भवच्छेदजनकभजनकर्मत्वस्य । शाब्देति । भवच्छेदफलकचैत्रा- भिन्नकर्तृकस्थाणुकर्मकभजनमित्यस्यैव शाब्दबोधत्वादिति भावः । प्राचीनाशयसूचकं म- तान्तरमाह-लिङ्ग त्विति । एकपदार्थ इत्यस्य विवरणं पदार्थान्तरेणानन्वित एवेति । एवं चासमस्ताखण्डैकपदार्थो लिङ्गमिति फलितम् । भवच्छेदनादिकं च भजनादिरूप- भिन्नपदार्थान्वितमेव भवधर्म इति भावः । कोपादिरिति । कुपितो मकरध्वज इ- स्यादौ । उक्तेति । भवच्छेदजनकभजनकर्मत्वरूपस्तु भजनादिरूपभिन्नपदार्थान्वित एव भवधर्मो नानन्वित इत्यर्थः । अत्रारुचिः स्फुटीभविष्यत्यनुपदमेव । युष्मदर्थे । शक्ति-