पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १२१ पदस्याभिधानियमनमिति रामरावणयोरित्युदाहरणं भवितुमर्हति' इति । तत्र तावद्रामरावणयोरिति व्यवस्थितार्थान्यतरपदकमुदाहरणं विरोधिताया नियामकत्वस्य न युक्तम् । रामलक्ष्मणयोरित्यत्रेवात्रापि साहचर्यस्यैव नियामकत्वात् । न च लक्ष्मणसाहचर्यं रामस्य प्रसिद्धम्, न तु रावणसाह- चर्यमिति वाच्यम् । प्रसिद्धतत्संबन्धकस्यैव तत्साहचर्यपदार्थत्वात् । पितृ- भ्रातृजायापत्यभृत्यनगरीणां संबन्धस्येव रिपोः संबन्धस्यापि लोकप्रसि- द्धात् । एवं स्थितेऽपि विरोधितायाः पृथग्गणने मित्रत्वादेरपि तथागण- नापत्तेः । तस्मात्प्राचीनोदाहरणमिव त्वदुक्तमुदाहरणमप्यशुद्धमेव । 'अन्यतरपदस्य व्यवस्थितार्थ एव' इत्याद्यप्यसंगतमेव । हरिनागस्येत्या- दावुभयोरव्यवस्थार्थत्वेऽप्येकवद्भावाभिव्यक्तेन विरोधेन धर्मिविशेषाविशे- षितेनापि युगपद्धर्मिविशेषद्वयेऽभिधाया नियन्तुं शक्यत्वात् । 'यदपि रामार्जुनगतिस्तयोरिति शब्दान्तरसंनिधेरुदाहरणम्' इति स एवाह । तद- प्यसत् । त्वया निरूपिते शब्दान्तरसंनिधेरुदाहरणे 'निषधं पश्य भूभृतम्', 'नागो दानेन राजते', इत्यत्र चाभिधाया नियतविषयतां विनान्वयस्यैवानुप- पत्त्या, प्रकृते च रामार्जुनगतिस्तयोरित्यत्रार्थान्तरविषयत्वेऽप्यन्वयानुप- पत्तेरभावान्महति चैलक्षण्ये शब्दान्तरसंनिध्युदाहरणत्वायोगात् । एवमपि काव्यप्रकाशगतस्य रामार्जुनगतिस्तयोरिति विरोधितोदाहरणस्यासंगतिः स्थितैवेति चेत् । न । तयोः कयोश्चित्प्रसिद्धविरोधयो रामार्जुनगती रामार्जु- नसद्दशी गतिराचरणमिति तदर्थवर्णने विरोधेन प्रस्ताववशात्प्रतीतेन युगपद्भार्गवकार्तवीर्ययो रामार्जुनशब्दाभिधाया नियमनस्योपपत्तेः । न च साहचर्यस्य नियामकत्वसंभवेऽपि । तथा पृथक् । त्वदुक्तमप्पय्यदीक्षितोक्तम् । तत्सि- द्धान्तं खण्डयति-अन्यतरेति । हरीति । 'येषां च विरोधः शाश्वतिकः' इति समा- हारैकवद्भावः । अत एवाह-एकवद्भावाभीति । स एवाप्पय्यदीक्षित एव । भूभृतमित्यत्रैति। निषधपदसांनिध्याद्भूभृत्पदस्य राज्ञि, दानपदसांनिध्यान्नागपदस्य ग- जेऽभिधानियमनम् । अर्थान्तरविषयत्वेऽपीति । रामार्जुनवत्पराक्रमशालित्वमित्या. द्यर्थान्तरम् । एवमपि दीक्षितोक्तसांगत्येऽपि । स्थितैवेति । दीक्षितोद्भावितान्योन्या- श्रयस्यानुद्धारादिति भावः । तदर्थोति । उदाहरणार्थेत्यर्थः । प्रस्तावः प्रकरणम् । युगपदिति । तथा च नान्योन्याश्रय इति भावः । नियमाधीति । तन्नियमाश्रयस्य १६