पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० काव्यमाला। मन्तौ, रामायोध्ये, इत्यादौ साहचर्यनियामकमिति वाच्यम् । लक्ष्मणा- दिसंबन्धापेक्षया चक्रादिसंबन्धस्याविशिष्टतया सशङ्खचक्र इत्यत्रापि सा- हचर्यस्यैव नियामकतापत्तेः। न च सशङ्खचक्र इत्यादौ यत्र संबन्धः संयोग- रूपस्तत्राद्यस्य, यत्र च संबन्धान्तरं तत्र तृतीयस्यावकाश इति वाच्यम् । संयोगस्यैव पृथक्कारे बीजाभावात् । न च यत्र संयोगः शब्दोपात्तस्तत्र स एव नियामकः, यत्र तु संबन्धिमात्रं न तु संबन्धस्तत्र साहचर्यम्, अत एव सशङ्खचक्र इति संयोगस्य, रामलक्ष्मणाविति च साहचर्यस्योदाहरणमिति वाच्यम् । सलक्ष्मणो रामो विलक्ष्मणो राम इत्यत्र संयोगविभागयोगुणयो- रप्रतीत्या साहचर्योदाहरणतायां प्रसक्तायां सशङ्खचक्र इत्यादेरपि तदुदा- हरणताया एवौचित्यादिति चेत् । उच्यते--संयोगशब्दस्य संबन्धसामा- न्यपरतया यत्र शब्दोपात्तं प्रसिद्धं संबन्धसामान्यं शक्तिनियामकं तदा- द्यस्य, यत्र तु द्वन्द्वादिगतः संबन्ध्येव केवलस्तथा तत्साहचर्यस्योदाहर- णमिति प्राचामाशयात् । इत्थं च सगाण्डिवोऽर्जुनः इति संयोगस्य, गाण्डिवार्जुनाविति साहचर्यस्योदाहरणम् । विरोधिता प्रसिद्धं वैरम् । सहानवस्थानं च । तत्राद्यस्य 'रामार्जुनौ' इत्युदाहरणं प्राञ्चो वदन्ति । यत्त्वप्पय्यदी- क्षितो वृत्तिवार्तिके प्राचामुदाहरणं निराकुर्वन्नाह–'रामार्जुनपदयोर्वध्यघा- तकभावविरोधाद्भार्गवकार्तवीर्ययोरभिधा नियम्यत इत्येतदयुक्तम् । रामपद- स्याभिधानियमने सति तद्विरोधप्रतिसंधानेनार्जुनपदस्य कार्तवीर्येऽभिधानि- यमनम, तस्मिश्च सति तद्विरोधप्रतिसंधानेन रामपदस्येत्यन्योन्याश्रयापत्तेः। तस्मादन्यतरपदस्य व्यवस्थितार्थत्व एव स्मृततद्विरोधप्रतिसंधानान्नानार्थ-

नेति । यत्र सशङ्खचक्र इत्यादावित्यन्वयः । आद्यस्य संयोगस्य । यत्र च रामलक्ष्मणा- वित्यादौ । संबन्धान्तरमेकजनकजन्यत्वादिरूपम् । तृतीयस्य साहचर्यस्य । संबन्धिमात्रं शब्दोपात्तमित्यनुषज्यते । मात्रपदव्यवच्छेद्यमाह-न त्विति । गुणयोरप्रतीत्येति । असंभवादिति भावः । किं तु साहित्यतदभावयोः प्रतीत्येति शेषः । आद्यस्य संयोगस्य । संबन्ध्येवेति । द्वन्द्वादिघटकः केवल: संबन्ध्येव तथा प्रसिद्धः शब्दोपात्त इत्यर्थः । भावेति । भावरूपविरोधादित्यर्थः । तत्परशुरामेत्यर्थः । तस्मिश्च सति कार्तवीर्येऽभिधा- नियमने सति । तत्कार्तवीर्येत्यर्थः । रामपदस्य परशुरामेऽभिधानियमनमिति शेषः । व्य- वस्थितेति । निश्चितेत्यर्थः । नियामकत्वस्येत्यस्योदाहरणमित्यत्रान्वयः । एवं स्थितेऽपि