पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ११९ भावात् । न चासौ लिङ्गान्तर्गत इति मन्तव्यम् । शक्यान्तरे नियमेनावृ- त्तेरेव प्रकृते लिङ्गत्वात् । शङ्खचक्रयोस्त्विन्द्रादिनापि कदाचिद्धारण- संभवात् । विप्रयोगो विक्ष्लेषः। यथा-'अशङ्खचक्रो हरिः' इत्यत्र तयोरेव विक्ष्लेषस्तथा । अत्र हि विक्ष्लेषनियतपूर्ववर्तिनः संक्ष्लेषस्य प्रागुक्तदलद्वयाक्रान्तत्वमपेक्ष्यते । तेना- युधसामान्यविभागः, पाशाङ्कुशादिविभागो वा न तथा । यद्यप्यत्र गु- णतया वर्तमानस्तादृशसंयोग एवाभिधानियमनायालम्, तथापि गुणप्रधा- नयोः संनिपाते प्रधानानुरोध एवं न्याय्य इत्याशयेन विप्रयोगस्य निया- मकत्वमुक्तम् । यद्वा संयोगस्यैव केवलत्वेन, विक्ष्लेषगुणीभूतत्वेन च द्वैवि- ध्यप्रदर्शनाय तथोक्तम् । साहचर्यमेकस्मिन्कार्ये परस्परापेक्षित्वम् । यथा-'रामलक्ष्मणौ' इत्यत्र रामे लक्ष्मणसाहचर्यं रामशब्दस्य । अथ किमिदं परस्परापेक्षित्वं यत्किचित्कार्ये, सर्वेषु कार्येषु वा । नाद्यः । घटा- द्यव्यावर्तनाद्धटसाहचर्यस्यापि रामपदशक्तिनियामकतापत्तेः। न द्वितीयः । लक्ष्मणसाहचर्यस्यापि निवारणापत्तेः । पक्षद्वयेऽपि रामायोध्ये रघुरामा- वित्यत्रानियमापत्तेश्च । न च नानार्थपदसमभिव्याहृतपदान्तरार्थस्य प्रसिद्धः संबन्धस्तत् । स चैकजन्यत्वदांपत्यजन्यजनकभावस्वामिभृत्यभावस्वस्वामि- भावादिरनेकविधः । तेन रामलक्ष्मणौ, सीतारामौ, रामदशरथौ, रामहनू- क्रमेण दलद्वयकृत्यमाह-न त्वायुधोति । असौ संयोगः । लिङ्गत्वात्तत्त्वेन ग्रहणात् । तथा च विशेषणदले नियमेनेति पूरणीयमिति भावः । तयोरेव शङ्खचक्रयोरेव । तथा अभिधानियामकः । एवमग्रेऽपि । अतिप्रसङ्गवारणायाह--अत्रेति । तेन संक्ष्लेषपूर्वकस्यैव तस्य ग्रहणमिति नातिप्रसङ्गः । प्राग्वत्तत्कृत्यमाह-तेनेति । गुणतया प्रकारतया । ता- दृशति । दलद्वयाक्रान्तेत्यर्थः । अलं समर्थः । विक्ष्लेषस्य नियामकत्वकल्पनजगौरवा- दाह-यद्वति । केवलत्वेन शुद्धसंयोगत्वेन । रामशब्दस्य । राघवेऽभिधानियामकमिति शेषः । निवारणेति । सर्वकार्ये तदभावादिति भावः । पक्षद्वयेऽपीति । कार्यमात्रे तयोस्तदभावात् । आधेऽसंभवातू, अन्त्ये तदा रघोरसत्त्वादिति भावः । प्रसिद्ध इति। नानार्थपदार्थे इति शेषः । तत्साहचर्यम् । उक्तसंबन्धानां क्रमेणोदाहरणान्याह-ते.