पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ काव्यमाला। बोधोत्तरं बोध्यः। स एव तु कथं स्यादित्युपायोऽयं विचिन्त्यते । नह्यप- हर्तृव्यवहारो वक्त्रा विवक्षित इति श्रोतुर्बोधे कश्चिदुपायोऽस्ति । ऋते स- हृदयहृदयोन्मिषितादस्माद्वयापारात् । एवमन्यत्राप्यूह्यम् । तादृशार्थप्रतिप- त्तिरेव नास्तीति तु गाढतरशब्दार्थव्युत्पत्तिमसृणीकृतान्तःकरणैर्न शक्यते वक्तुम् । तथा चेत्थं संग्रहः- 'योगरूढस्य शब्दस्य योगे रूढया नियन्त्रिते । धियं योगस्टशोऽर्थस्य या सूते व्यञ्जनैव सा ॥' एवं स्थिते नानार्थस्थलेऽप्युपमायाः प्राकरणिकाप्राकरणिकार्थगतायाः प्रतिपत्तयेऽवश्यं वाच्यया व्यञ्जनयैवाप्राकरणिकस्याप्यर्थस्य प्रतिपत्तावलं क्लिष्टकल्पनयेत्याशयेन प्राचीनैरुक्तं नानार्थव्यञ्जकत्वमपि न दुष्यति । तत्र नानार्थशक्तिनियमनाय तैः संयोगादयो निरूपिताः- 'संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति । तत्र संयोगो नानार्थशब्दशक्यान्तरवृत्तितया अमसिद्धत्वे सति तच्छ- क्यवृत्तितया प्रसिद्धः संबन्धः । यथा---'सशङ्खचक्रो हरिः' इत्यत्र शङ्खचक्रयोः संयोगो भगवन्मात्र- निष्ठतया प्रसिद्धो भगवति हरिशब्दस्याभिधाया नियमेनावस्थापकः । न त्वायुधत्वेनायुधसामान्यसंयोगः, पाशाङ्कुशादिसंयोगो वा । दलद्वया- होऽत आह-तात्पर्यार्थेति । ननु यत्र तद्वाक्येन तदर्थान्वयबोधात्प्राक्प्रकारान्तरेण तदर्थे वक्तस्तात्पर्यग्रहस्तत्रास्तु नाम 'काकेभ्यो दधि रक्ष्यताम्' इत्यादौ तात्पर्यानुप- पत्त्या लक्षणा, प्रकृते तु न तथेत्याह--नह्यपहर्तृव्यवहार इति । अस्माव्घञ्जनरूपात् । तादृशेति । अन्येत्यर्थः । अवश्यं वाच्ययेति । अर्थापत्तेः प्रमाणान्तरत्वे मानाभावा- दिति भावः । क्लिष्टेति । पूर्वोक्तेत्यर्थः । तत्र निरूपितायां व्यञ्जनायाम् । तैः प्राचीनैः । तत्र संयोगादीनां मध्ये । मात्रपदेन विशेषणदलसत्ता सूचिता । भगवति विष्णौ ।