पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ११७ यथा वा- 'चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु । विपिनेऽतिचञ्चलानामपि च मृगाणां कथं हरति ॥' अत्र नैवाश्चर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणाधि- केन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकत्तु हरिणानां तद्गुणयु- क्तानां तस्याः स इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोगम- र्यादया मूर्खपुत्राणामत एव प्रमत्तानां नेतृभिश्चोराद्यैः श्रियो धनस्य ह. रणं सुशकम्, न तु गवेषकाणामत एवाप्रमत्तानामिति जलजनयनमृगश- ब्देभ्यः प्रतीयमानोऽर्थः कथं नाम व्यञ्जनाव्यापारं विनोपपादयितुं श- क्यते । अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुदाघुपस्थितिर्लक्ष- णयैवेति नैयायिका मन्यन्ते । अत एव च 'ईशानो भूतभव्यस्य स एवाद्यः स उ श्वः' इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कश्चिजीवोऽत्र प्रतिपा- द्यत उतेश्वर इति संशये जीव एवेति पूर्वपक्षे च 'शब्दादेव प्रमितः' इति सूत्रितमुत्तरमीमांसाकारैर्बादरायणचरणैः (ब्रह्मसूत्रे १।३।२४) तस्मा- दर्थान्तरमिह न शक्तिवेद्यम् । अपि तु व्यक्तिवेद्यमेव । यथाश्रुतार्थस्यैवो- पपत्तेोधाभावेन लक्ष्यमित्यपि न शक्यं वक्तुम् । तात्पर्यार्थबोधस्तु तदर्थ- ह-पुंश्चलीति । आदिना पुरुषत्वरतित्वपरिग्रहः । योगरूढस्योदाहरणान्तरमाह- यथा वेति । तद्रुणेति । चाञ्चल्यगुणाधिक्येत्यर्थः । तस्याः स इति । शोभाया- स्तिरस्कार इत्यर्थः । जलजनयनमृगेति । डलयोरैक्याज्जडजत्वेन मूर्खपुत्राणा- मित्यस्य, नयतीति नयनमित्यनेन नेतृत्वेन चौराद्यैरित्यस्य, मृगयन्तीति मृगा इत्यनेन गवेषकाणामित्यस्य लाभः । 'मृग अन्वेषणे' इत्यदन्ताच्चुरादेः पचाद्यच् । अत एव योगशक्त्या अलाभादेव । एवमग्रेऽपि । ईशान इत्यस्य 'अङ्गष्ठमात्रः पुरुषो ज्योतिरि- वाधूमकः' इत्यादिः । कठवल्लीस्थमिदम् । (चतुर्थवल्ली । १३) अद्य वर्तमानकाले स एवास्ति । श्वो भविष्यत्काले स एव भवितेत्यर्थः । जीव एवेति । 'अङ्गष्टपरिमाणस्य लिङ्गस्य ब्रह्मण्यसंभवादिति भावः । सूत्रितमिति । सिद्धान्तार्थमिति शेषः स चे- त्थम् --परमात्मात्र प्रतिपाद्यः प्रमितः । कुतः । शब्दादेव । ईशानो भूतभव्यस्येत्यत्रे- शानशब्दात् । नहि जीवे ईशानशब्द आञ्जसः । लिङ्गश्रुत्योर्विरोधे श्रुतेः प्राबल्यात् । एतत्सूचनार्थमेवैवकारः । अङ्गप्रमात्रत्वं तु अङ्गष्टमात्रजीवानुवादेन ब्रह्माभेदप्रतिपादना- दनुपपन्नमिति । ननु शक्त्यवेद्यत्वेऽप्यन्यत्र लक्षणावेद्यत्वमेवास्तामत आह-यथेति । तथा च मुख्यार्थबाधरूपलक्षणाबीजाभावान्न सेति भावः । नन्वेवं तथापि कथं निर्वा-