पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। इत्थं च सुरभिमांस भक्षयतीत्यादेर्वाक्याज्जायमाना द्वितीया प्रतीतिर्गवाद्यु- पस्थितेरभावात्कथं स्यादिति तदुपस्थित्यर्थ व्यञ्जनव्यापारोऽभ्युपेयः । अ- थैकया शक्त्या प्राकरणिकार्थोपस्थितेरनन्तरं द्वितीयया शक्त्या द्वितीया- र्थोपस्थितिस्तथापि स्यादिति चेत्, न । स्यादेव, प्रकरणादिज्ञानस्य प्रति- बन्धकस्यानुपरमात् । अन्यथा प्राकरणिकार्थोपस्थितावेवाप्राकरणिकस्या- प्यर्थस्य विषयत्वं स्यात् । न च प्रकरणादिज्ञानस्य तादृशपदजन्यार्थोप- स्थितिसामान्य एव प्रतिबन्धकत्वाद्वयक्त्यापि कथमर्थान्तरोपस्थितिरिति शङ्कचम् । धर्मिग्राहकमानेनाप्राकरणिकोपस्थापकतयैव तादृशव्यक्तेरुल्ला- सात्तदजन्योपस्थिति प्रत्येव प्रकरणादिज्ञानस्य प्रतिबन्धकत्वकल्पनात् । व्यक्तिज्ञानस्योत्तेजकत्वकल्पनाद्वा । एतदेव सर्वमभिसंधायोक्तम्- 'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकद्वयाप्टतिरञ्जनम् ॥' यन्त्रणमपरार्थोपस्थापनप्रतिबन्ध इति । अपरे त्वाहुः-नानार्थशब्द- जशाब्दबुद्धौ तात्पर्यनिर्णयहेतुताया अवश्यकल्प्यत्वात्प्रथमं नानार्थशब्दा- दनेकार्थोपस्थानेऽपि प्रकरणादिभिस्तात्पर्यनिर्णयहेतुभिरुत्पादिते तस्मिन्यत्र तात्पर्यनिर्णयस्तस्यैवार्थस्यान्वयबुद्धिर्जायते, नान्यस्येति स्मरणावाश्रीयमा- णायां नैकमात्रगोचरस्मृत्यपेक्षा, नाप्यपरार्थोपस्थानप्रतिबन्धकत्वकल्पनम् ।

येति । गवादिविषयेत्यर्थः । प्रतिबन्धकसत्त्वादिति भावः । तदाह-गवादीति । नानाशक्तिरिति मताभिप्रायेण शङ्कते-अथेति । तथापि प्रतिबन्धकसत्त्वेऽपि । तस्य पूर्वशक्त्या पुनरनुपस्थितौ चारितार्थ्यात् । तथा च व्यञ्जनाव्यापारो निष्फल इति भावः । ज्ञानस्येत्युपलक्षणं तात्पर्यनिर्णयस्यापि । एवमग्रेऽपि । अनुपरमादनाशात् । सत्त्वादिति यावत् । शक्तेर्नात्वे न मानम्, सत्त्वेऽपि वा तत्संकोच एवेति भावः । अ- न्यथा तत्सत्त्वेऽपि । तदङ्गीकारे व्यञ्जनाङ्गीकारेऽप्यनिर्वाह इति शङ्कते-न चेति । तादृशेति । द्वितीयेत्यर्थः । व्यक्त्यापि व्यञ्जनयापि । तादृशेति । अर्थान्तरोपस्थाप- केत्यर्थः । तदनन्येति । व्यञ्जनाख्यवृत्त्यजन्येत्यर्थः । विनिगमनाविरहादाह-व्यक्ति- ज्ञानस्येति । बोधकताविशेषः शक्तिः, तद्विशेषो लक्षणा, तद्विशेष एव च व्यञ्जने- त्यालंकारिकसमयः । तज्ज्ञानं च शाब्दबोधे हेतुरित्यभिप्रायः । उक्तम् । काव्यप्रकाश- कृतेति भावः । प्रथमं तात्पर्यनिर्णयात्पूर्वम् । तस्मिस्तात्पर्यनिर्णये । इतिः पूर्वोक्तार्थस्या-