पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

एवं च प्रागुपदर्शितनानार्थस्थले प्रकरणादिज्ञानाधीनात्तात्पर्यनिर्णया- त्प्राकरणिकार्यशाब्दबुद्धौ जातायामतात्पर्यार्थविषयापि शाब्दबुद्धिस्तस्मा- देव शब्दाज्जायमाना कस्य व्यापारस्य साध्यतामालम्बताम, त्रक्ष्ते व्यञ्ज - नात् । न च शक्तिसाध्या सेति वाच्यम् । तदधीनबोधं प्रति तात्पर्य- निर्णयस्य हेतुत्वात् । व्यक्त्यधीनबोधस्तु नावश्यं तात्पर्यज्ञानमपेक्षते । नन्वेकमात्रगोचरस्मृतेस्तच्छाब्दबुद्धावनपेक्षितत्वे 'विशेषस्मृतिहेतवः' इति प्राचां ग्रन्थः कथं संगच्छते । कथं वा प्रकरणादिज्ञानस्यापरार्थों- पस्थानप्रतिबन्धकत्वविरहे संयोगाद्यैरनेकार्थस्य शब्दस्य वाचकताया नियन्त्रणोक्तिश्चेति चेत्, इत्थम्-स्मृतिशब्दस्य निश्चयपरतया वि- शेषस्मृतिशब्देन विशेषविषयस्तात्पर्यनिर्णयो गृह्यते । संयोगाद्यैर्वाचक- ताया नियन्त्रणं चैकार्थमात्रविषयकतात्पर्यनिर्णयजननद्वारा शाब्दबुद्धय- नुकूलत्वम् । अवाच्यार्थोऽतात्पर्यार्थः । एवं च न ग्रन्थासंग- तिरित्यपि वदन्ति । अथ प्राकरणिकार्थबोधानन्तरं तादृशपद- ज्ञानस्योपरमात्कथं व्यक्तिवादिनाप्यर्थान्तरधीः सूपपादेति चेत् । मैवम् । प्रथमार्थप्रतीतेर्व्यापारस्य सत्त्वाददोष इत्येके । अर्थप्रतीतौ शक्यतावच्छेदकस्येव पदस्यापि विशेषणतया भानात्प्राथमिकश- क्यार्थबोधस्यैव पदज्ञानत्वादित्यपरे । आवृत्त्या पदज्ञानं सुलभमित्यपि कश्चित् । तदित्थं नानार्थस्थलेऽनुरणनीयं व्यञ्जनं शब्दशक्तिमूलम् । श- ब्दस्य परिवृत्त्यसयसहत्वादिति ध्वनिकारानुयायिनो वर्णयन्ति । अन्ये त्वत्र प्रत्यवतिष्ठन्ते । यत्तावदुक्तमेकार्थमात्रविषया पदार्थोपस्थितिस्तदन्वयवो- ग्रिमनिषेधद्वये हेतुत्वबोधकः । नावश्यमिति । न नियमेनेत्यर्थः । व्यङ्गयानेकस्थले त्वपेक्वेक्षैवेति भावः । तात्पर्यज्ञानमपेक्षते इति । धर्मिग्राहकमानेन तस्यास्तथैव सिद्धे- रिति भावः । इतिरपरमतसमाप्तौ। उक्तिश्चेत्यस्य कथं संगच्छत इत्यस्यानुषङ्गः । इत्यपि वदन्तीति । अपरे इति भावः । तादृशेति । तात्पर्यज्ञानात्मकेत्यर्थः । सत्त्वादिति । तथा च तेन संबन्धेन तत्सत्त्वमिति भावः । पदस्यापीति । 'न सो- ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वे शब्देन भासते ॥' इति हर्युक्तेरिति भावः। परिवृत्तीति । पर्यायान्तरेण बोधनादिति भावः । अत्र मतद्वये । तत्राद्यमते आह-यत्तावदिति । ननु तात्पर्यज्ञानस्य तत्रैवोपयोग इति