पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। द्वितीयमाननम् । अथ संलक्ष्यक्रमध्वनिर्निरूप्यते- स च तावद्विविधः, शब्दशक्तिमूलोऽर्थशक्तिमूलश्च । तत्राद्यो द्विविधः, व्यङ्गयस्य वस्तुत्वालंकारत्वाभ्यां वैविध्यात् । द्वितीयोऽपि वस्त्वलंकारा- त्मना लोकसिद्धेन तथाभूतेनैव प्रतिभामात्रनिर्वर्तितेन च व्यञ्जकेनार्थैन च- तुर्विधेन वस्त्वलंकारात्मनो द्विविधस्य व्यङ्गचस्य प्रत्येकं व्यञ्जनादष्टमूर्तिः। प्रतिभानिर्वर्तितत्वाविशेषाच्च । कवितदुम्भितवक्तृप्रौढोक्तिनिष्पन्नयोरर्थ- योर्न पृथग्भावेन गणनोचिता । उम्भितोम्भितादेरपि भेदान्तरप्रयोजकता- पत्तेः । न च तस्यापि कव्युम्भितत्वानपायात्तत्प्रयोज्यभेदान्तर्गतत्वमेवेति वाच्यम् । प्रथमोम्भितस्यापि लोकोत्तरवर्णनानिपुणत्वलक्षणकवित्वानपाया- त्पृथग्भेदप्रयोजकतानुपपत्तेः । एवं साकल्येन दशभेदोऽयम् । तत्र केचि- दाहुः-नानार्थस्य शब्दस्य सर्वेष्वर्थेषु संकेतग्रहस्य तुल्यत्वाच्छ्रुतमात्र एव तस्मिन्सकलानामर्थानामुपस्थितौ, शब्दस्यास्य कस्मिन्नर्थे तात्पर्यमिति संदेहे च सति, प्रकरणादिकं तात्पर्यनिर्णायकं पर्यालोचयतः पुरुषस्य सति तन्निर्णये तदात्मकपदज्ञानजाया एकार्थमात्रविषयायाः पुनः पदार्थों- पस्थितेरनन्तरमन्वयबोध इति नये द्वितीयायाः पदार्थोपस्थितेः प्राथमिक्या इव न कुतो नानार्थगोचरतेति प्रकरणादिज्ञानस्य तदधीनतात्पर्यनिर्णयस्य वा पदार्थोपस्थितौ प्रतिबन्धकत्वं वाच्यम् । अन्यथा शाब्दबुद्धेरपि ना- नार्थविषयत्वापत्तिः । अत एवोक्तम्-'अनवच्छेदे विशेषस्मृतिहेतवः' इति । अनवच्छेदे तात्पर्यसंदेहे । विशेषस्मृतिरेकार्थमात्रविषया स्मृतिः । तथाभूतेनैवेति । वस्त्वलंकारात्मनेत्यर्थः । अन्येषां भेदानां संग्रहायाह-प्रति- भेति । तदुम्भितेति । तन्निबद्धेत्यर्थः । तस्यापि उम्भितोम्भितस्यापि । प्रतिबन्धा समाधत्ते-प्रथमोम्भीति । पृथग्भेदेति । वृद्धोक्तिविषयाच्छिशूक्तिविषय इव कव्यु. क्तिविषयात्कविनिबद्धोक्तिविषये चमत्कारा धिक्यानुभविकत्वात्पृथगुक्तिः । ततः परं च प्रतिनिधानसाध्यप्रतीतिकतया चमत्कारस्थगनान्नोम्भितोम्भितादेः पृथग्गणनेति तु नव्याः । साकल्येन मिलित्वा । अयं संलक्ष्यक्रमध्वनिः । तन्निर्णये तात्पर्यनिर्णये । तदा- त्मकपदेति । तात्पर्यज्ञानात्मकपदेत्यर्थः । तस्य नष्टत्वादाह-तदधीनेति । द्विती-