पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। नास्तीत्यस्ति नियमः । इन्द्रियत्रये व्यभिचारात् । इत्थं च स्वस्वव्यञ्ज- कोपनीतानां गुणिनां गुणानामुदासीनानां च यथा परस्परोपक्ष्लेषेणौदासी- न्येन वा तत्तत्प्रमितिगोचरता तथा रसानां तद्गुणानां चाभिव्यक्तिविषय- तेति तु नव्याः। उदाहरणं तु 'तां तमाल' इत्यादि प्रागुक्तमेव (६४ पृष्ठे) वाक्यस्य व्यञ्जकतायामपि 'आविर्भूता यदवधि' इत्यादि च (३४ पृष्ठे)। प्रबन्धस्य तु योगवासिष्ठरामायणे शान्तकरुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्जकत्वान्निदर्शनानि प्रसिद्धानि । मन्निर्मिताश्च पञ्च लहयों भावस्य । पदैकदेशस्य च 'निखिलमिदं जगदण्डकं वहामि' (४२ पृष्ठे) इति करूपतद्धितो वीररसस्य प्रागेवोदाहृतः। एवं रागादिभिरपि व्यङ्गयत्वे सहृदयहृदयमेव प्रमाणम् । एवमेषां रसादीनां प्राधान्येन निरूपितान्यु- दाहरणानि । गुणीभावे तु वक्ष्यन्ते नामानि च । तत्र प्राधान्य एवैषां रसादित्वम् । अन्यथा तु रत्यादित्वमेव । नामनि रसपदं तु रत्यादिपर- मित्येके । अस्त्येव रसादित्वं किं तु न ध्वनिव्यपदेशहेतुत्वमित्यपरे । इति महोपाध्यायपदवाक्यप्रमाणपारावारपारीणश्रीपेरमभट्टस्य सूरेः सूनुना पण्डितराजजगन्नाथेन निर्मिते रसगङ्गाधरे रसनिरूपणात्मकं पूर्वमाननम् । भावस्य तव्घङ्गयसंबन्धिप्रबन्धादिरूपव्यञ्जकस्य । उदाहरणानीति शेषः । पदैकदेशस्य चेति । चस्त्वर्थे । उदाहरणमिति शेषः । वीररसस्येत्यस्य व्यञ्जक इति शेषः । रागा- दिभिरपीति । रसस्येति शेषः । वक्ष्यन्ते इत्यत्र उदाहरणानीत्यस्यानुषङ्गः, तस्य चाग्रे नामानीति । रसवदित्यत्रेत्यर्थः । इति प्रथमाननप्रकाशः ।