पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। द्धतया वाच्यान्वयबोधवेलायां वाच्यैः सह व्यङ्गयान्वयानुपपत्तेः । अ- न्यथा 'सुदृशो नयनाब्जकोणयोः' इत्यस्यान्वयो न स्यात् । मैवम् । एवमपि- 'निर्वासयन्तीं धृतिमङ्गनानां शोभा हरेरेणद्दशो धयन्त्याः । चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव ॥ इत्यादावपि भावप्रशमध्वनित्वापत्तेः । भावस्य वाच्यत्वेऽपि प्रधानस्य तत्प्रशमस्य व्यङ्गयत्वात् । उभयोरप्यवाच्यत्वमपेक्षितमिति चेत्, प्रागुक्त- पद्यद्वये शमत्वोदयत्वाभ्यां शमोदययोर्वाच्यत्वादनुदाहरणत्वापत्तेः । इष्टा- पत्तिस्तु सहृदयानामनुचितैव । तस्माद्भावप्रशमादिष्वपि प्राधान्येन भावा- नामेव चमत्कारित्वम्, प्रशमादेस्तूपसर्जनत्वमतो न तस्य वाच्यतादोषः । इदं पुनर्भावध्वनिभ्यो भावशान्त्यादिध्वनीनां चमत्कारवैलक्षण्ये निदानम्- यदेकत्र चर्वणायां भावेषु स्थित्यवच्छिन्नामर्षादित्वम्, अमर्षादित्वमेव वा प्रकारः । अन्यत्र तु प्रशमावस्थत्वादिरपीति । रसस्य तु स्थायिमूलक- त्वात्प्रशमादेरसंभवः । संभवे वा न चमत्कारः। इति न स विचार्यते । सोऽयं निगदितः सर्वोऽपि रत्यादिलक्षणो व्यङ्गयप्रपश्चः । स्फुटे प्रकरणे झगिति प्रतीतेषु विभावानुभावव्यभिचारिषु सहृदयत- मेन प्रमात्रा सूक्ष्मेणैव समयेन प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रम- वाच्यैः प्रशमादिभिः । व्यङ्गयान्वयेति । आरुण्यव्यङ्गयरोषान्वयेत्यर्थः । अन्यथा तदङ्गीकारे । न स्यात् । रोषोदये सुदृक्त्वस्य बाधात् । तथा च रोषप्रशमादिध्वनित्वं सुस्थमिति भावः । निर्वासयन्तीं दूरीकुर्वतीम् । मांसलः पुष्टः । क्षणप्राघुणिकोऽतिथिः । शङ्कते-उभयोरपीति । एवमेव उक्तदोषद्वयाभावेऽपि । प्रधानाप्रधानयोरपीत्यर्थः । पद्यद्वये 'उषसि-' 'क्षमाप-' इत्यत्रेत्यर्थः । सहदयानामिति । अत्र शास्त्रे तेषामेव मुख्यप्रमाणत्वेनोरीकारादिति भावः । अपिर्भावस्थितिसमुच्चायकः । नन्वेवं वैलक्षण्याना- पत्त्या भेदेनोक्त्यसंगत्यापत्तिरत आह-इदं पुनरिति । यदेकत्र शुद्धभावध्वनौ । विशेषणस्याव्यावर्तकत्वाद्विशेष्यमात्रकृतचमत्काराच्चाह-अमर्षादित्वमेव वेति । अन्यत्र भावशान्त्यादिध्वनौ । इतिर्निदानसमाप्तौ। ननु भावशान्त्यादिवद्रसशान्त्यादिः कुतो नोदाहृतोऽत आह-रसस्येति । असंभव इति । तत्त्वे स्थायित्वानुपपत्तेरिति भावः । नन्वभिव्यक्तिनाशादिरेव प्रशमादिरत आह-संभवे वेति । रत्यादिलक्षणो रत्यादिस्वरूपः । समयेन कालेन । हेत्विति । विभावादिरत्याघैरित्यर्थः । प्रकरणस्य