पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। १०७ स्यालक्षणादलक्ष्यक्रमो व्यपदिश्यते । यत्र तु विचारवेद्यं प्रकरणम्, उन्नेया वा विभावादयस्तत्र सामग्रीविलम्बाधीनं चमत्कृतेर्मान्थर्यमिति संलक्ष्य- क्रमोऽप्येष भवति । यथा-'तल्पगतापि च सुतनुः' इति प्रागुदाहते (१२ पृष्ठे) पद्ये 'संप्रति' इत्येतदर्थावगतिर्विलम्बेन । न खलु धर्मिग्राहक- मानसिद्धं रत्यादिध्वनेरलक्ष्यक्रमव्यङ्गन्यत्वम् । अत एव लक्ष्यक्रमप्रसङ्गे- "एवं वादिनि देवर्षौ पाश्चै पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥ इत्यत्र कुमारीस्वाभाव्यादप्यधोमुखत्वविशिष्टस्य लीलाकमलपत्रगण- नस्योपपच्या मनाग्विलम्बेन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं ब्रीडा- याश्चमत्करणाल्लक्ष्यक्रमोऽयं ध्वनिः" इति प्राहुरानन्दवर्धनाचार्याः । "रसभावादिरर्थो ध्वन्यमान एव, न वाच्यः । तथापि न सर्वो लक्ष्यक्र- मस्य विषयः" इति चाभिनवगुप्तपादाचार्याः । स्यादेतत्, यद्ययं रसादिः संलक्ष्यक्रमस्य विषयः स्यात् । अनुरणनभेदगणनप्रस्तावे "अर्थशक्ति- मूलस्य द्वादशभेदाः" इत्यभिनवगुप्तोक्तिः, "तेनायं द्वादशात्मकः" इति मम्मटोक्तिक्ष्व न संगच्छेत । वस्त्वलंकारात्मना द्विविधेन वाच्येन स्वतः- संभवित्वकविप्रौढोक्तिनिष्पन्नत्वकविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नत्वैस्त्रिभिरु- पाधिभिस्त्रैविध्यमापन्नेन षडात्मना वस्त्वलंकारयोरिव रसादेरप्यभिव्यञ्जना- दष्टादशत्वप्रसङ्गात् । अत्रोच्यते--प्रकटैर्विभावानुभावव्यभिचारिभिरलक्ष्यक्रमतयैव व्यज्य- मानो रत्यादिः स्थायिभावो रसीभवति । न संलक्ष्यक्रमतया । रसीभावो हि नाम झगिति जायमानालौकिकचमत्कारविषयस्थायित्वम् । संलक्ष्यक्रम- तया व्यज्यमानस्य रत्यादेस्तु वस्तुमात्रतैव, न रसादित्वमिति तेषामाश- स्फुटत्वेऽप्याह-उन्नेया वेति । अत एव तन्मात्रत्वाभावादेव । अस्योभयत्रान्वयः । देवर्षों नारदे । पितुर्हिमालयस्य । तथापि ध्वन्यमानत्वमात्रत्वेऽपि । अनुरणनभेदेति । ध्वनिभेदेत्यर्थः । तदेत्यादिः । रसीभवत्यरसो रसः संपद्यते । एवव्यवच्छेद्यमाह-न संलक्ष्येति । एवमग्रेऽपि । तेषामभिनवगुप्तादीनाम् । वर्णनेन । व्याख्याकारैरिति शेषः ।