पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । विनाशसंधिशबलतानां तत्संबन्धिनां भावानां च समानायां चर्वणाविषय- तायां न प्राधान्यं विनिगन्तुं शक्यते । तथापि स्थितौ भावेषु प्रधानतायाः क्लृप्तत्वात्, भावशान्त्यादिष्वपि तेष्वेव शान्तिप्रतियोगित्वादिभिर्व्यज्यमा- नेषु तस्याः कल्पयितुमौचित्यात् । किं च यदि भावशान्त्यादौ भावो न प्रधानम्, किं तु तदुपसर्जनकशान्त्यादिरेवेत्यभ्युपेयते तदा व्यज्यमानभा- वेष्वभिहिततत्पशमादिषु काव्येषु भावप्रशमादि ध्वनित्वं न स्यात् । तथाहि । 'उषसि प्रतिपक्षनायिकासदनादन्तिकमञ्चति प्रिये । सुद्दशो नयनाब्जकोणयोरुदियाय त्वरयारुणघुतिः॥' अत्रोत्पूर्वकेणैतिना भावोदयस्य वाच्यतयैव प्रत्यायनात्, उदयस्य वाच्यत्वेऽपि भावस्यावाच्यत्वाद्धवनित्वं सुस्थमिति चेत्, प्रधानस्य व्यपदे- शानौपयिकत्वेऽप्रधानकृतव्यपदेशानुपपत्तेः । अस्मन्मते तूत्पत्तेर्वाच्यत्वे- ऽप्युत्पत्त्यवच्छिन्नस्यामर्षस्य प्रधानस्यावाच्यत्वाघुक्त एव भावोदयध्वनि- व्यपदेशः । एवं व्यज्यमानभावप्रतियोगिकस्य प्रशमस्य वाच्यत्वे भावशान्तिध्वनित्वनित्वं न स्यात् । यथा- 'क्षमापणैकपदयोः पदयोः पतति प्रिये । शेमुः सरोजनयनानयनारुणकान्तयः॥ ननु शब्दवाच्यानां प्रशमादीनामरुणकान्त्यैवान्वयात्, अरुणकान्ति- प्रशमादेरेव वाच्यत्वं पर्यवसितम् । न तु तादृशप्रशमादिव्यङ्गयस्य रोष- प्रशमादेः । व्यङ्गयव्यञ्जकभेदस्यावश्यकत्वात् । न चारुण्यव्यङ्गयरोषस्यैव वाच्याभूतप्रशमाद्यन्वय इति वाच्यम् । वाच्यव्यङ्गयप्रतीत्योरानुपूर्वेण सि- तद्विषये । तेष्वेव भावेष्वेव । तस्याः प्रधानतायाः । ननु तत्र तत्कृतश्चमत्कारः, अत्र त्वेतत्कृत इति वैषम्यमत आह-किं चेति । सामान्येनोक्तमथै विशिष्योपपादयति- तथा हीति । अञ्चतीति सप्तमी । उत्पूर्वकेणैतिनेति । उदुपसर्गपूर्वकेणेणधातुने- त्यर्थः । शङ्कते-उदयेति । अनौपयिकत्वेऽप्रधानेत्यत्राकारप्रक्ष्लेषः । उदयस्थले दोषं दत्त्वा शान्तिस्थले तमाह-एवमिति । एकपदयोरसाधारणस्थानयोः । पततीति स- प्तमी । उभयत्र शङ्कते-नन्विति । वाच्यान्वयेति । सकलपदानामिति शेषः ।