पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। इह तादृशप्रियवचनश्रवणं विभावः । नयनकोणगतशोणरुचेर्नाशः, तदभिव्यक्तः प्रसादो वानुभावः । उत्पत्तिकालावच्छिन्नो रोषनाशो व्यङ्गयः । तथा भावोदयो भावस्योत्पत्तिः । उदाहरणम्- 'वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी । अंसदेशवलयीकृतां क्षणादाचकर्ष निजबाहुवल्लरीम् ॥' अत्रापि दयितवक्षोगतविपक्षकामिनीहारलक्ष्मदर्शनं विभावः । प्रियां- सदेशवलयीकृतनिजबाहुलताकर्षणमनुभावः । रोषादयो व्यङ्गयाः । य- द्यपि भावशान्ती भावान्तरोदयस्य, भावोदये वा पूर्व भावशान्तेरावश्य- कत्वान्नानयोर्विविक्तो व्यवहारस्य विषयः । तथापि द्वयोरेकत्र चमत्कार- विरहात, चमत्काराधीनत्वाच्च व्यवहारस्य, अस्ति विषयविभागः । एवं भावसंधिरन्योन्यानभिभूतयोरन्योन्यान्भिभावनयोग्ययोः सामाना- धिकरण्यम् । उदाहरणम्- 'यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः। संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥' अत्र भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्गमस्य, तादृशस्यैव शील- शौर्यादेश्च दर्शनं विभावः । नयनगतसंकोचविकासावनुभावः । ब्रीडौ- त्सुक्ययोः संधिर्व्यङ्गयः । तथा भावशबलत्वम्- भावानां बाध्यबाधकभावमापन्नानामुदासीनानां वा व्यामिश्रणम् । एकचमत्कृतिजनकज्ञानगोचरत्वमिति यावत् । वच्छिन्न एव । मुदिरालिर्मेघपङ्क्त्तिः । नाशस्य साक्षात्तत्कार्यत्वाभावादाह-तदभीति। ननु ततः किमत आह-चमत्कारेति । एवं च यत्कृतो यत्र चमत्कारस्तत्र तव्घ- वहार इति भावः । सामानाधिकरण्यमिति । एकदेशवृत्तित्वविशिष्टैककालवृत्तित्व- रूपमित्यर्थः । सूक्ष्मभेदस्त्वकिंचित्कर इति भावः । शबलतायां त्वेकदेशवृत्तित्वरूपमेव सामानाधिकरण्यमिति विशेषः । तादृशस्यैव लोकोत्तरस्यैव । एकेति । एकं यत्तादृशं