पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ काव्यमाला। रागादिनिष्ठतया च वर्ण्यमानः शोकः, ब्रह्मविद्यानधिकारिचाण्डालादिग- तत्वेन च निर्वेदः, कदर्यकातरादिगतत्वेन पित्राद्यालम्बनत्वेन वा क्रोधो- त्साहौ, ऐन्द्रजालिकाद्यालम्बनत्वेन च विस्मयः, गुर्वाद्यालम्बनतया च हासः, महावीरगतत्वेन भयम्, यज्ञीयपशुवसासृङमांसाद्यालम्बनतया वर्ण्यमाना जुगुप्सा च रसाभासाः । विस्तृतिभयाच्चामी नेहोदाहृताः सुधी- मिरुन्नेयाः । एवमेवानुचितविषया भावाभासाः। यथा- 'सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता विद्यापि खेदकलिता विमुखीबभूव । सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयादधिदेवतेव ॥' गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्यान्यस्य वा कस्यचिदतिप्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्येयमुक्तिः । अत्र च स्वात्मत्यागात्यागाभ्यां स्त्रवचन्दनादिषु विषयेषु चिरसेवितायां विद्यायां च कृतघ्नत्वम्, अस्यां च लोकोत्तरत्वमभिव्यज्यमानं व्यतिरेकवपुः स्मृतिमेव पुष्णातीति सवै प्रधानम् । एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्य- धिदेवतोपमापि । एषा चानुचितविषयकत्वादनुभयनिष्ठत्वाच्च भावाभासः । यदि पुनरियं तत्परिणेतुरेवोक्तिस्तदा भावध्वनिरेव ॥ अथ भावशान्तिः- भावस्य प्रागुक्तस्वरूपस्य शान्ति र्नाशः। स चोत्पत्त्यवच्छिन्न एव ग्राह्यः । तस्यैव सहृदयचमत्कारित्वात् । उदाहरणम्- ' 'मुश्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय । इति तन्व्याः पतिवचनैरपायि नयनाब्जकोणशोणरुचिः ॥' निन्द्यः । कातरो, भीतः । एवमेव रसाभासवदेव । खेदकलिता खेदव्याप्ता । विनिगम- नाविरहादाह-अन्यस्येति । अत्र च स्वात्मत्यागेति विषयविद्योभयकर्तृकस्वत्यागेन विषयविद्ययोः कृतघ्नत्वम्, नायिकाकर्तृकस्त्रीयात्यागेन चास्यां नायिकायां लोकोत्तरत्व- मित्यर्थः । एवं स्मृतिमेव पुष्यतीत्यर्थः । स च नाशश्चोत्पत्त्येवच्छिन्न एवोत्पत्तिकालां- -