पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ९९ अथ रसाभासः-तत्र अनुचितविभावालम्बनत्वं रसाभासत्वम् । विभावादावनौचित्यं पुनर्लोकानां व्यवहारतो विज्ञेयम् । यत्र तेषाम- युक्तमिति धीरिति केचिदाहुः । तदपरे न क्षमन्ते । मुनिपत्न्यादिविषयक- रत्यादेः संग्रहेऽपि बहुनायकविषयाया अनुभयनिष्ठायाश्च रतेरसंग्रहात् । तत्र विभावगतस्यानौचित्यस्याभावात् । तस्मादनौचित्येन रत्यादिविशेष- णीयः । इत्थं चानुचितविभावालम्बनाया बहुनायकविषयाया अनुमयनिष्ठा- याश्च संग्रह इति । अनौचित्यं च प्राग्वदेव । तत्र रसाद्याभासत्वं रसत्वा- दिना न समानाधिकरणम् । निर्मलस्यैव रसादित्वात् । 'हेत्वाभासत्वमिव हेतुत्वेन' इत्येके । 'नह्यनुचितत्वेनात्महानिः, अपि तु सदोषत्वादाभासव्य- वहारः । अश्वाभासादिव्यवहारवत्' इत्यपरे । उदाहरणम्- 'शतेनोपायानां कथमपि गतः सौधशिखरं . सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने । विबोध्य क्षामाङ्गी चकितनयनां स्मेरवदनां सनिःश्वासं क्ष्लिष्यत्यहह सुलती राजरमणीम् ॥' अत्रालम्बनमनुचितप्रणया राजरमणी । रहोरजन्याघुद्दीपनम् । साह- सेन राजान्तःपुरे गमनम्, प्राणेषूपेक्षा निःश्वासाक्ष्लेषादयश्चानुभावाः । शङ्का- दयः संचारिणः । निषिद्धालम्बनकत्वाच्चास्या रतेराभासत्वं रसस्य । न सप्तमी । तत्र निरूपणीये रसाभासे । यत्र विभावादौ । तेषां लोकानाम् । आदिना गुरुपत्न्यादिसंग्रहः । तत्र तयोः । तस्मादिति । तथा चानुचितविभावालम्बनकरतित्वं तत्त्वं ज्ञेयम् । आदिना हासादिपरिग्रहः । इत्थं च तथाविशेषणे च । इतिरपरमतस- माप्तौ । चस्त्वर्थे । तत्र रसाभासेषु । आदिना भावपरिग्रहः । निर्मलस्य निर्दुष्टस्य । हेतुत्वेनेत्यस्य न समानाधिकरणमित्यस्यानुषङ्गः । नन्वत्र मते दुष्टो हेतुरितिवद्दुष्टो रस इत्यादिव्यवहारानुपपत्तिरतो मतान्तरमाह--नहीति । आत्महानिः स्वरूपहानिः । अश्वाभासेति । अश्वे इति भावः । सौधेति । सुधानिर्मितराजगृहोपरितनप्रदेशमित्यर्थः । फेनस्यात्यन्तस्वच्छत्वादुक्तिः । पुष्पशयने पुष्पशव्यायाम् । अहहेति शङ्कायाम् । अनु- चितेति । अनुचितः प्रणयो यस्या मित्यर्थः । यस्या इति वा । इदमाद्योदाहरणमित्याह- निषिद्धेति । अस्या नायकनिष्ठायाः । परेत्यस्य विबोध्येति । बोधितेत्यादिः ।