पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। चात्र चकितनयनामित्यनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेरनुभयनिष्ठते- त्याभासताहेतुर्वाच्यः । अस्याश्च चिराय तस्मिन्नासक्ताया अन्तःपुरे परपु- रुषागमनस्यात्यन्तमसंभावनया क एवं मां बोधयतीत्यादावुचित एव त्रासः । अनन्तरं च परिचयाभिव्यक्त्या सोऽयं मत्प्रियो मदर्थं प्राणानपि तृणीकृत्या- गत इति ज्ञानादुत्पन्नं हर्षमभिव्यञ्जयत्स्मेरवदनामिति विशेषणं रतिं तदीया- मपि व्यनक्ति। परंतु प्राधान्यं नायकनिष्ठाया एव रतेः। सकलवाक्यार्थत्वात्। यथा वा- 'भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु । तरुणेषु विलोचनाब्जमालामथ बाला पथि पातयांबभूव ॥' अत्र कुतश्चिदागच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैर्युवभिरनु- गम्यमानायाः कस्याश्चिद्भवनप्रवेशसमये निजसेवासार्थक्यविज्ञानाय गमना- ज्ञापनरूपलाभलालसेषु तेषु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादा- ननिवेदकस्य विलोचनाम्बुजमालापरिक्षेपस्यानुभावस्य वर्णनादभिव्यज्य- माना रतिर्बहुवचनेन बहुविषया गम्यत इति । भवत्ययमपि रसाभासः । यथा वा- 'भुजपञ्जरे गृहीता नवपरिणीता वरेण वधूः । तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ॥' अत्र रतेर्नववध्वा मनागप्यस्पर्शादनुभवनिष्ठत्वेनाभासत्वम् । तथा चोक्तम्- 'उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च । बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ॥' इति । स्पर्शेति । स्पर्शकृतत्रासैत्यर्थः । अनुभयेति । नायके सत्त्वेऽपि नायिकायामभावादिति भावः । हेतुरिति । तथा च तृतीयोदाहरणमेतन्नाद्यस्येति भावः । समाधत्ते-अ- स्थाश्चेति । चो यत इत्यर्थे । व्यनक्तीत्यत्रास्यान्वयः । रतिमिति । नायिकासंबन्धिनीं रतिमपीत्यर्थः । हर्षसमुच्चायकोऽपि: । नन्वेवं विनिगमनाविरहोऽत आह-परं त्विति । नायिकानिष्ठा तु स्मरेति पदमात्रव्यङ्गयत्वान्न वाक्यार्थः । तथा चाद्योदाहरणतास्य सुस्थेति भावः । द्वितीयोदाहरणमाह-यथा वेति । भवनं स्वगृहम् । विज्ञानाय तदङ्गीकाराय । तेषु तरुणेषु। करुणायामन्वयः । परमेत्यस्य तरुणसंबन्धीत्यादिः । बह्विति । तरुणेष्विति बह्वित्यर्थः । तृतीयोदाहरणमाह-यथा वेति । भुजेति रूपकम् । उपेति । आभासत्व-