पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। वितिष्ठन्ते युष्मन्नयनपरिपातोत्कलिकया वराकाः के तत्र क्षपितमुर नाकाधिपतयः ॥' अत्रापमानसहनभगवद्वारनिषेवणभगवत्कटाक्षपाताभिलाषादिभिर्बह्मा- दिगता भगवदालम्बना रतिर्नाभिव्यज्यते । अपि तु भगवदैश्वर्यमवाड्मन- सगोचर इति चेत्तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभग- वदालम्बनरत्या ध्वनित्वमक्षतमेव । इदं वोदाहरणम्- 'न धनं न च राज्यसंपदं नहि विद्यामिदमेकमर्थये । मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥' अत्र धनाद्यपेक्षाशून्यस्य भगवद्दटगन्तपाताभिलाषो हि भगवत्यनुरक्ति व्यनक्ति । एवं संक्षेपेण निरूपिता भावाः ॥ अथ कथमस्य संख्यानियमः-मात्सयोंद्वेगदम्भेया॑विवेकनिर्णयक्लै- ब्यक्षमाकुतुकोत्कण्ठाविनयसंशयधाष्टर्यादीनामपि तत्र तत्र लक्ष्येषु दर्श- नात् । इति चेत् । न । उक्तेष्वेवैषामन्तर्भावेण संख्यान्तरानुपपत्तेः । अ- सूयातो मात्सर्यस्य, त्रासादुद्वेगस्य, अवहित्थाख्यानावाद्दम्भस्य, अमर्षा- दीर्ष्यायाः, मतेर्विवेकनिर्णययोः, दैन्यात्क्लैव्यस्य, धृतेः क्षमायाः, औत्सु- क्यात्कुतुकोत्कण्ठयोः, लज्जाया विनयस्य, तर्कात्संशयस्य, चापलाद्धा- ष्टर्यस्य च वस्तुतः सूक्ष्मे भेदेऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्य- वसायात् । मुनिवचनानुपालनस्य संभव उच्छृङ्खलताया अनौचित्यात् । एषु च संचारिभावेषु मध्ये केचन केषांचन विभावा अनुभावाश्च भवन्ति । तथा हि-ईर्ष्याया निर्वेदंप्रति विभावत्वम्, असूयां प्रति चानुभावत्वम्।चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि स्वयमूह्यम् । द्वारपालौ । ते अनिर्वचनीयप्रभावास्ते भवद्दवारि भवन्नेत्रपातोत्कण्ठया कीटा इव विति. ष्टन्त इत्यन्वयः । वराका दीनाः । नाभिव्यज्यत इति। धनाद्यभिलाषेणापि तदुपपत्ते- रिति भावः । इतीत्यस्याभिव्यज्यत इत्यस्यानुषङ्गः । चेत् यद्यपि । नन्वस्या अप्राधान्येन कथं तत्त्वमत आह-इदं वेति । अस्य भावस्य । अन्तर्भावे हेतुमाह-असूयात इति । ननु सूक्ष्मभेदप्रयुक्तभेदः कुतो नात आह-मुनीति । संचारीति षष्ठ्यर्थे