"मुहुः पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः इत्यमरः ॥ संभृतं संचितं महर्षेर्वरतन्तोस्त्रिविधं वाङ्मनःकायजं तत्तपोऽन्तरायैर्विधैरिन्द्रप्रेरिताप्सरःशापैर्व्ययं नाशं नापाद्यते कच्चित् । न नीयते किम् ॥ " कच्चित्कामप्रवेदने" इत्यमरः ॥
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।
कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदात्माश्रमपादपानाम् ॥६॥
आधारेति ॥ आधारबन्धममुखैरालवालनिर्माणादिभिः प्रयत्नैरुपायैः ॥ “आधार आलवालेऽम्बुबन्धेऽधिकरणेऽपि च" इति विश्वः ॥ सुतेभ्यो निर्गतो विशेषोऽतिशयो यस्मिन्कर्मणि तत्तथा संवर्धितानां श्रमच्छिदां व आश्रमपादपानां वाय्वादिः । आदिशब्दाद्दावानलादिः। उपप्लवो बाधको न कच्चिन्नास्ति किम् ॥
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः॥ ७॥
क्रियेति ॥ क्रियानिमित्तेष्वप्यनुष्ठानसाधनेष्वपि कुशेषु मुनिभिर्वत्सलत्वान्मृगस्नेहादभग्नकामाप्रतिहतेच्छा । तेषां मुनीनामङ्का एव शय्यास्तासु च्युतानि नाभिनालानि यस्याः सा तथोक्ता मृगीणां प्रसूतिः संततिरनघाव्यसना कच्चित् । अनपायिनी किमित्यर्थः ॥" दुःखैनोव्यसनेष्वघम्" इति यादवः॥ ते हि व्यालभयाद्दशरात्रमङ्क एव धारयन्ति ।
निवर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितृणाम् |
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ।।८।।
निर्वर्त्यत इति ॥ यैस्तीर्थजलैर्नियमाभिषेको नित्यस्नानादिर्निर्वर्त्य॑ते निष्पाद्यते । येभ्यो जलेभ्यः । उद्धृत्येति शेषः । पितॄणामग्निष्वात्तादीनां निवापाञ्जलयस्तर्पणाञ्जलयः ॥ “पितृदानं निवापः स्यात्" इत्यमरः ॥ निर्वर्त्यन्ते । उञ्छानां प्रकीर्णोद्धृतधान्यानां षष्ठैः षष्ठभागैः पालकत्वाद्राजग्राह्यैरङ्कितानि सैकतानि पुलिनानि येषां तानि तथोक्तानि वो युष्माकं तानि तीर्थजलानि शिवानि भद्राणि कच्चित् । अनुपप्लवानि किमित्यर्थः ॥ “उञ्छो धान्याशकादानं कणिशाद्यर्जनं शिलम्" इति यादवः ॥ “षष्ठाष्टमाभ्यां ञ च" इति षष्ठशब्दाद्भागार्थेऽन्प्रत्ययः। अतएवापूरणार्थत्वात् “ पूरणगुण-" इत्यादिना न षष्ठीसमासप्रतिषेधः ।। सिकता येषु सन्ति सैकतानि ॥ “सिकताशर्कराभ्यां च" इत्यण्प्रत्ययः ॥
नीवारपाकादि क[१]डंगरीयैरामृश्यते जानपदैर्न कच्चित् ।
कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः॥९॥
- ↑ कडंकरीयैः.