म् ॥ "दाण्डिनायन-" आदिसूत्रेण निपातः॥ वीतहिरण्मयत्वादपगतसुवर्णपात्रत्वात् । यज्ञस्य सर्वस्वदक्षिणाकत्वादिति भावः । मृण्मये मृद्विकारे पात्रे । अर्घार्थमिदमर्घ्यम् ॥ “ पादार्घाभ्यां च" इति यत् ॥ पूजार्थं द्रव्यं निधाय श्रुतेन शास्त्रेण प्रकाशं प्रसिद्धम् । श्रूयत इति श्रुतं वेदशास्त्रम् ॥ " श्रुतं शास्त्रावधृतयोः" इत्यमरः ॥ अतिथिमभ्यागतं कौत्सम् ॥ “ अतिथिर्ना गृहागते" इत्यमरः ॥ प्रत्युज्जगाम ॥
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी।
विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच ॥३॥
तमिति ॥ विधिज्ञः शास्त्रज्ञः। अकरणे प्रत्यवायभीरुरित्यर्थः । मानधनानामग्रयाय्यग्रेसरः। अपयशोभीरुरित्यर्थः । कृत्यवित्कार्यज्ञः । आगमनप्रयोजनमवश्यं प्रष्टव्यमिति कृत्यवित् । विशां पतिर्मनुजेश्वरः ॥ “द्वौ विशौ वैश्यमनुजौ" इत्यमरः ॥ विष्टरभाजमासनगतम् । उपविष्टमित्यर्थः ॥ "विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्" इत्यमरः ॥ “वृक्षासनयोर्विष्टरः" इति निपातः ॥ तं तपोधनं विधिवद्विध्यर्हम् |यथाशास्त्रमित्यर्थः ॥ " तदर्हम् " इति वतिप्रत्ययः॥ अर्चयित्वारात्समीपे ॥ “आराद्दूरसमीपयोः इत्यमरः ॥ कृताञ्जलिः सन्निति वक्ष्यमाणप्रकारेणोवाच॥
अप्यग्रणीरिति ॥ हे कुशाग्रबुद्धे सूक्ष्मबुद्धे ॥ “कुशाग्रीयमतिः प्रोक्तः सूक्ष्मदर्शी च यः पुमान् ” इति हलायुधः ॥ मन्त्रकृतां मन्त्रस्रष्टॄणाम् ॥ “सुकर्मपापमन्त्र-" इत्यादिना क्विप् ॥ ऋषीणामग्रणीः श्रेष्ठस्ते तव गुरुः कुशल्यपि । क्षेमवान्किम् ॥ अपि प्रश्ने । “गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि" इत्यमरः ।। यतो यस्माद्गुरोः सकाशात्वयाशेषं ज्ञानम् । लोकेनोष्णरश्मेः सूर्याच्चैतन्यं प्रबोध इव । आप्तं स्वीकृतम् ॥
कायेनेति ॥ कायेनोपवासादिकृच्छ्रचान्द्रायणादिना वाचा वेदपाठेन मनसा गायत्रीजपादिना कायेन वाचा मनसापि । करणेन । वासवस्येन्द्रस्य धैर्यं लुम्पतीति वासवधैर्यलोपि । स्वपदापहारशङ्काजनकमित्यर्थः । यत्तपः शश्वदसकृत् ।।