स्कारास्ताभिः । करणैः । अङ्गुलीषु मौलिषु केशबन्धनेषु याः स्रजो माल्यानि ताभ्यश्च्युतैर्मकरन्दैः पुष्परसैः ॥ " मकरन्दः पुष्परसः" इत्यमरः ॥ रेणुभिः परागैश्च ॥ “परागः सुमनोरजः" इत्यमरः ॥ गौरं गौरवर्णं चक्रुः ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
रघुदिग्विजयो नाम चतुर्थः सर्गः ।
पञ्चमः सर्गः।
इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् ।
वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।
उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः॥१॥
तमिति ॥ विश्वजिति विश्वजिन्नाम्न्यध्वरे यज्ञे ॥ " यज्ञः सवोऽध्वरो यागः" इत्यमरः ॥ निःशेषं विश्राणितं दत्तम् ॥ श्रण दाने चुरादिः॥ कोशानामर्थराशीनां जातं समूहो येन तं तथोक्तम् ॥ “कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः" इत्यमरः ॥ “जातं जनिसमूहयोः" इति शाश्वतः ॥ एतेन कौत्सस्यानवसरप्राप्तिं सूचयति । तं क्षितीशं रघुमुपात्तविद्यो लब्धविद्यो वरतन्तोः शिष्यः कौत्सः ॥ ऋष्यन्धक-" इत्यण् । इञोsपवादः || गुरुदक्षिणार्थी ॥ " पुष्करादिभ्यो देशे" इत्यत्रार्थाच्चासंनिहिते तदन्ताच्चेतीनिः ॥ अप्रत्याख्येय इति भावः । प्रपेदे प्राप ॥ अस्मिन्सर्गे वृत्तमुपजातिः । तल्लक्षणं तु- " स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्रवज्रा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः" इति ॥
स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्य[१]मनर्घशीलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः॥२॥
स इति ॥ अनर्घशीलोऽमूल्यस्वभावः । असाधारणस्वभाव इत्यर्थः ॥ “मूल्ये पूजाविधावर्घः" इति। " शीलं स्वभावे सद्दत्ते” इति चामरशाश्वतौ ॥ यशसा कीर्त्या । प्रकाशत इति प्रकाशः॥ पचाद्यच् ॥ अतिथिषु साधुरातिथेयः ॥ “पध्यतिथिवसतिस्वपतेर्ढञ् " इति ढञ् ॥ स रघुः । हिरण्यस्य विकारो हिरण्मय-
- ↑ अनर्घ्यशीलः.