नीवारेति ॥ कालेषु योग्यकालेषुपपन्नानामागतानामतिथीनां कल्प्या भागा यस्य तत्तथोक्तम् । वने भवं वन्यम् । शरीरस्थितेर्जीवितस्य साधनं वो युष्माकम् । पच्यत इति पाकः फलम् । धान्यमिति यावत् । नीवारपाकादि । आदिशब्दाच्छ्यामाकादिधान्यसंग्रहः । जनपदेभ्य आगतैर्जानपदैः॥ "तत आगतः' इत्यण् ॥ कडंगरीयैः । कडंगरं बुसमर्हन्तीति कडंगरीयाः ॥ “कडंगरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्" इत्यमरः ॥ “कडंगरदक्षिणाच्छ च" इति छप्रत्ययः।। तैर्गोमहिषादिभिर्नामृश्यते कच्चित् । न भक्ष्यते किमित्यर्थः ॥
अ[१]पि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमंते ॥१०॥
अपीति ॥ किंच त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वा । विद्यामुपदिश्येत्यर्थः । गृहाय गृहस्थाश्रमं प्रवेष्टुम् ॥ " क्रियार्थोपपद-" इत्यादिना चतुर्थी ॥ अनुमतोऽप्यनुज्ञातः किम् ॥ हि यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्यवानप्रस्थयतीनामुपकारे क्षमं शक्तम् ॥ “क्षमं शक्ते हिते त्रिषु" इत्यमरः ॥ द्वितीयमाश्रमं गार्हस्थ्यं संक्रमितुं प्राप्तुमयं कालः । विद्याग्रहणानन्तर्यात्तस्येति भावः ॥“कालसमयवेलासु तुमुन्" इति तुमुन् । सर्वोपकारक्षममित्यत्र मनु: यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । वर्तन्ते गृहिणस्तद्वदाश्रित्येतर आश्रमाः" इति ॥
कुशलप्रश्नं विधायागमनप्रयोजनप्रश्नं चिकीर्षुराह-
तवेति ॥ अर्हतः पूज्यस्य प्रशस्तस्य ॥ “ अर्हः प्रशंसायाम्" इति शतृप्रत्ययः ॥ तवाभिगमनेनागमनमात्रेण मे मनो न तृप्तं न तुष्टम् । किंतु नियोगक्रियया ज्ञाकरणेनोत्सुकं सोत्कण्ठम् ॥ “इष्टार्थोद्युक्त उत्सुकः” इत्यमरः ॥ “प्रसितोत्सुकाभ्यां तृतीया च” इति सप्तम्यर्थे तृतीया शासितुर्गुरोराज्ञयाप्यात्मना स्वतो वा ।। "प्रकृत्यादिभ्य उपसंख्यानम्” इति तृतीया ॥ मां संभावयितुं वनात्प्राप्तोऽसि ॥ गुर्वर्थं स्वार्थं वागमनमित्यर्थः ॥
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य ।
स्वार्थोपपत्तिं प्रति दुर्बलाशस्त[४]मित्यवोचद्वरतन्तुशिष्यः॥१२॥
इतीति।अर्घ्यपात्रेण मृण्मयेनानुमितो व्ययः सर्वस्वत्यागो यस्य तस्य रघोरि-