सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ४ )
रघुवंशे

 सोऽहमिति ॥ सोऽहम् । “रघूणामन्वयं वक्ष्ये" (१।९) इत्युत्तरेण संबन्धः। किंविधानां रघूणामित्यत्रोत्तराणि विशेषणानि योज्यानि ॥ आ जन्मनः । जन्मारभ्येत्यर्थः ॥"आङ् मर्यादाभिविध्योः" इत्यव्ययीभावः॥ शुद्धानाम् ॥ सुप्सुपेति समासः ॥ एवमुत्तरत्रापि द्रष्टव्यम् ॥ आजन्मशुद्धानाम् । निषेकादिसर्वसंस्कारसंपन्नानामित्यर्थः । आफलोदयमाफलसिद्धेः कर्म येषां ते तथोक्तास्तेषाम् । प्रारब्धान्तगामिनामित्यर्थः । आसमुद्रं क्षितेरीशानाम् । सार्वभौमाणामित्यर्थः । आनाकं रथवर्त्म येषां तेषाम् । इन्द्रसहचारिणामित्यर्थः ॥ अत्र सर्वत्राङोऽभिविध्यर्थत्वं द्रष्टव्यम् । अन्यथा मर्यादार्थत्वे जन्मादिषु शुद्ध्यभावप्रसङ्गात् ॥

  यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
  यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥६॥

 यथाविधीति ॥ विधिमनतिक्रम्य यथाविधि ॥ “यथासादृश्ये" इत्यव्ययीभावः। तथा हुतशब्देन सुप्सुपेति समासः ॥ एवं “यथाकामार्चित-" इत्यादीनामपि द्रष्टव्यम् ॥ यथाविधि हुता अग्नयो यैस्तेषाम् । यथाकाममभिलाषमनतिक्रम्यार्चितार्थिनाम् । यथापराधमपराधमनतिक्रम्य दण्डो येषां तेषाम् । यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीलानाम् ॥ चतुर्भिर्विशेषणैर्देवतायजनार्थिसत्कारदण्डधरत्वप्रजापालनसमयजागरूकत्वादीनि विवक्षितानि ॥

  त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।
  यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥७॥

 त्यागायेति॥ त्यागाय । सत्पात्रे विनियोगस्त्यागस्तस्मै ॥ “त्यागो विहापितं दानम्" इत्यमरः ॥ संभृतार्थानां संचितधनानाम् । न तु दुर्व्यापाराय । सत्याय मितभाषिणां मितभाषणशीलानाम् । न तु पराभवाय । यशसे कीर्तये ॥ “यशः कीर्तिः समज्ञा च" इत्यमरः ॥ विजिगीषूणां विजेतुमिच्छूनाम् । न त्वर्थसंग्रहाय । प्रजायै संतानाय गृहमेधिनां दारपरिग्रहाणाम् । न तु कामोपभोगाय ॥अत्र “त्यागाय" इत्यादिषु "चतुर्थी तदर्थ-" इत्यादिना तादर्थ्ये चतुर्थीसमासविधानज्ञापकाच्चतुर्थी ॥ गृहैर्दारैर्मेधन्ते संगच्छन्त इति गृहमेधिनः ॥ “दारेष्वपि गृहाः" इत्यमरः । “जाया च गृहिणी गृहम्" इति हलायुधः ॥ “मेधृ संगमे" इति धातोर्णिनिः॥ एभिर्विशेषणैः परोपकारित्वं सत्यवचनत्वं यशःपरत्वं पितॄणां शुद्धत्वं च विवक्षितानि ॥

  शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
  वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥८॥