पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३ )
प्रथमः सर्गः ।

च कारके संज्ञायाम्" इति साधुः॥ सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क्व । अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व ॥ द्वौ क्वशब्दौ महदन्तरं सूचयतः ॥ सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः । तथा च तद्विषयप्रबन्धनिरूपणं तु दुरापास्तमिति भावः ॥ तथाहि । दुस्तरं तरितुमशक्यम् ॥ " ईषद्दुःसुषु-" इत्यादिना खल्प्रत्ययः ॥ सागरं मोहादज्ञानादुडुपेन प्लवेन ॥ “ उडुपं तु प्लवः कोलः" इत्यमरः ॥ अथवा चर्मावनद्धेन पानपात्रेण ॥ “चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्" इति सज्जनः ॥ तितीर्षुस्तरीतुमिच्छुरस्मि भवामि ॥ तरतेः सन्नन्तादुप्रत्ययः॥ अल्पसाधनैरधिकारम्भो न सुकर इति भावः । इदं च वंशोत्कर्षकथनं स्वप्रबन्धमहत्त्वार्थमेव । तदुक्तम्-"प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः" इति ॥

  मन्दः कवियशःप्रा[१]र्थी गमिष्याम्युपहास्यताम् ।
  प्रांशुल [२]भ्ये फले लो[३]भादुद्बाहुरिव वामनः ॥३॥

 मन्द इति ॥ किं च मन्दो मूढः ॥ “मूढाल्पापटुनिर्भाग्या मन्दाः स्युः" इत्यमरः॥ तथापि कवियशःप्रार्थी । कवीनां यशः काव्यनिर्माणेन जातं तत्प्रार्थनाशीलोऽहं प्रांशुनोन्नतपुरुषेण लभ्ये प्राप्ये फले फलविषये लोभादुद्बाहुः फलग्रहणायोच्छ्रितहस्तो वामनः खर्व इव ॥ “खर्वो ह्रस्वश्च वामनः" इत्यमरः ॥ उपहास्यतामुपहासविषयताम् ॥ "ऋहलोर्ण्यत्" इति ण्यत्प्रत्ययः ॥ गमिष्यामि प्राप्स्यामि ॥

 मन्दश्चेत्तर्हि त्यज्यतामयमुद्योग इत्यत आह-

  अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः।
  मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः॥४॥

 अथवेति ॥ अथवा पक्षान्तरे पूर्वैः सूरिभिः कविभिर्वाल्मीकादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रबन्धरूपा या वाक्सैव द्वारं प्रवेशो यस्य तस्मिन् । अस्मिन्सूर्यप्रभवे वंशे कुले । जन्मनैकलक्षणः संतानो वंशः । वज्रेण मणिवेधकसूचीविशेषेण ॥ "वज्रं त्वस्त्री कुलिशशस्त्रयोः । मणिवेधे रत्नभेदे” इति केशवः ॥ समुत्कीर्णे विद्धे मणौ रत्ने सूत्रस्येव मे मम गतिः संचारोऽस्ति । वर्णनीये रघुवंशे मम वाक्प्रसरोऽस्तीत्यर्थः ॥

 एवं रघुवंशे लब्धप्रवेशस्तद्वर्णनां प्रतिजानानः “ सोऽहम्" इत्यादिभिः पञ्चभिः श्लोकैः कुलकेनाह-

  सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।
  आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥५॥


  1. प्रेप्सुः.
  2. गम्ये.
  3. मोहात्.