सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २ )
रघुवंशे

 इह खलु सकलकविशिरोमणिः कालिदासः "काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे" इत्यालंकारिकवचनप्रामाण्यात्काव्यस्यानेकश्रेयःसाधनताम् “काव्यालापांश्च वर्जयेत्" इत्यस्य निषेधशास्त्रस्यासत्काव्यविषयतां च पश्यन्रघुवंशाख्यं महाकाव्यं चिकीर्षुश्चिकीर्षितार्थाविघ्नपरिसमाप्तिसंप्रदायाविच्छेदलक्षणफलसाधनभूतविशिष्टदेवतानमस्कारस्य शिष्टाचारपरिप्राप्तत्वात् "आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्" इत्याशीर्वादाद्यन्यतमस्य प्रबन्धमुखलक्षणत्वात्काव्यनिर्माणस्य विशिष्टशब्दार्थप्रतिपत्तिमूलकत्वेन विशिष्टशब्दार्थयोश्च" शब्दजातमशेषं तु धत्ते शर्वस्य वल्लभा। अर्थरूपं यदखिलं धत्ते मुग्धेन्दुशेखरः" इति वायुपुराणसंहितावचनबलेन पार्वतीपरमेश्वरायत्तत्वदर्शनात्तत्प्रतिपित्सया तावेवाभिवादयते-

  वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
  जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥१॥

 वागर्थाविति॥ वागर्थाविवेत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम् । एवमन्यत्रापि द्रष्टव्यम् ॥ वागर्थाविव शब्दार्थाविव संपृक्तौ । नित्यसंबद्धावित्यर्थः॥ नित्यसंबद्धयोरुपमानत्वेनोपादानात् ॥ “नित्यः शब्दार्थसंबन्धः" इति मीमांसकाः ॥ जगतो लोकस्य पितरौ । माता च पिता च पितरौ ॥ " पिता मात्रा" इति द्वन्दैकशेषः ॥ “मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ" इत्यमरः ॥ एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यमिष्टार्थप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते॥ पर्वतस्यापत्यं स्त्री पार्वती ॥ "तस्यापत्यम्" इत्यण् । “टिड्ढाणञ्-" इत्यादिना ङीप् ॥ पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ ॥ परमशब्दः सर्वोत्तमत्वद्योतनार्थः। मातुरभ्यर्हितत्वादल्पाक्षरत्वाच्च पार्वतीशब्दस्य पूर्वनिपातः ॥ वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये ॥ अत्रोपमालंकारः स्फुट एव । तथोक्तम्- "स्वतःसिद्धेन भिन्नेन संपन्नेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा" इति ॥ प्रायिकश्चोपमालंकारः कालिदासोक्तकाव्यादौ । भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते । तदुक्तम्-" शुभदो मो भूमिमयः" इति । वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः॥

 संप्रति कविः स्वाहंकारं परिहरति "क्व सूर्य-" इत्यादिश्लोकद्वयेन-

  क्व सूर्यप्रभवो वंशः क्वचाल्पविषया मतिः ।
  तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥२॥

 क्व सूर्येति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् ॥ “ऋदोरप्"| " अकर्तरि