शैशव इति॥ शिशोर्भावः शैशवं बाल्यम् ॥ “प्राणभृज्जातिवयोवचनोद्गात्र-" इत्यञ्प्रत्ययः ॥ “शिशुत्वं शैशवं बाल्यम्" इत्यमरः ॥ तस्मिन्वयस्यभ्यस्तविद्यानाम् । एतेन ब्रह्मचर्याश्रमो विवक्षितः ॥ यूनो भावो यौवनं तारुण्यम् ॥ युवादित्वादण्प्रत्ययः ॥ "तारुण्यं यौवनं समम्" इत्यमरः ॥ तस्मिन्वयसि विषयैषिणां भोगाभिलाषिणाम् । एतेन गृहस्थाश्रमो विवक्षितः । वृद्धस्य भावो वार्द्धकं वृद्धत्वम् ॥ “द्वन्द्वमनोज्ञादिभ्यश्च" इति वुञ्प्रत्ययः ॥ " वार्द्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि" इति विश्वः ॥ संघातार्थेऽत्र “वृद्धाच्च" इति वक्तव्यात्सामूहिको वुञ् ॥ तस्मिन्वार्द्धके वयसि मुनीनां वृत्तिरिव वृत्तिर्येषां तेषाम् । एतेन वानप्रस्थाश्रमो विवक्षितः । अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन ॥ “योगः संनहनोपायध्यानसंगतियुक्तिषु” इत्यमरः ॥ तनुं देहं त्यजन्तीति तनुत्यजां देहत्यागिनाम् ॥ “कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः" इत्यमरः ।। "अन्येभ्योऽपि दृश्यते" इति क्विप् ॥ एतेन भिक्ष्वाश्रमो विवक्षितः॥
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्र[१]चोदितः ॥९॥
रघूणामिति ॥ सोऽहं लब्धप्रवेशः । तनुवाग्विभवोऽपि स्वल्पवाणीप्रसारोऽपि सन् । तेषां रघूणां गुणैस्तद्गुणैः । आजन्मशुद्ध्यादिभिः॥ कर्तृभिः ॥ कर्णं मम श्रोत्रमागत्य चापलाय चापलं चपलकर्माविमृश्यकरणरूपं कर्तुम् ॥ युवादित्वात्कर्मण्यण् । “क्रियार्थोपपदस्य" इत्यादिना चतुर्थी ॥ प्रचोदितः प्रेरितः सन् । रघूणामन्वयं तद्विषयप्रबन्धं वक्ष्ये ॥ कुलकम् ॥
संप्रति स्वप्रबन्धपरीक्षार्थं सतः प्रार्थयते-
तमिति॥तं रघुवंशाख्यं प्रबन्धं सदसतोर्गुणदोषयोर्व्यक्तेर्हेतवः कर्तारः सन्तः
श्रोतुमर्हन्ति ॥ तथाहि । हेम्नो विशुद्धिर्निदोषस्वरूपं श्यामिकापि लोहान्तरसंसर्गात्मको दोषोऽपि वाग्नौ संलक्ष्यते । नान्यत्र । तद्वदत्रापि सन्त एव गुणदोषविवेकाधिकारिणः । नान्य इति भावः ॥