पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३८८ )
रघुवंशे

  तं पयोधरनिषिक्तचन्दनैर्मौक्तिकप्रथितचारुभूषणैः ।
  ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेख[१]लैः प्रियाः॥४५॥

 तमिति ॥ प्रियाः पयोधरेषु स्तनेषु निषिक्तमुक्षितं चन्दनं येषु तैः । मौक्तिकैर्ग्रथितानि प्रोतानि चारुभूषणानि येषु तैः । मुक्तापायाभरणैरित्यर्थः । श्रोणिलम्बिन्यो मणिमेखला मरकतादिमणियुक्तकटिसूत्राणि येषु तादृशैर्ग्रीष्मवेषविघिभिरुष्णकालोचितनेपथ्यविधानैः । शीतलोपायैरित्यर्थः । तमग्निवर्णं सिषेविरे॥

  यत्स ल[२]ग्नसहकारमासवं रक्तपाटलसमागमं पपौ।
  तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥ १६ ॥

 यदिति ॥ सोऽग्निवर्णो लग्नः सहकारश्चूतपल्लवो यस्मिंस्तं रक्तपाटलस्य पाटलकुसुमस्य समागमो यस्य तमासवं मद्यं पपी । इति यत्तेनासवपानेन मधुनिर्गमाद्वसन्तापगमात्कृशो मन्दवीर्यस्तस्य चित्तयोनिः कामः पुनर्नवः प्रबलोऽभवत् ।।

  एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः।
  आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवा[३]हितः॥४७॥

 एवमिति ॥ एवमनङ्गवाहितः कामप्रेरितोऽन्यकार्यविमुखः स पार्थिव इन्द्रियाणां सुखानि सुखकराणि शब्दादीनि निर्विशन्ननुभवन्नात्मनो लक्षणैः कुटजस्रग्धारणादिचिह्नैर्निवेदितान् । अयमृतुरिदानीं वर्तत इति ज्ञापितान् । ऋतून्वर्षादीनत्यवाहयदगमयत् ॥

  तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवः ।
  आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥१८॥

 तमिति ॥ प्रमत्तं व्यसनासक्तमपि तं नृपं प्रभावतोऽन्यपार्थिवा आक्रमितुमभिभवितुं न शेकुर्न शक्ताः । रतिरागसंभव आमयो व्याधिस्तु । क्षयरोग इत्यर्थः। दक्षस्य दक्षप्रजापतेः शापश्चन्द्रमिव । अक्षिणोदकर्शयत् । शापोऽपि रतिरागसंभव इति । अत्र दक्षः किलान्याः स्वकन्या उपेक्ष्य रोहिण्यामेव रममाणं राजानं सोमं शशाप । स शापश्चाद्यापि क्षयरूपेण तं क्षिणोतीत्युपाख्यायते ।।

  दृष्टदोषमपि तन्न सो[४]ऽत्यजत्सङ्गवस्तु भिषजाभ[५]नाश्रवः ।
  स्वादुभिस्तु[६] विषयैर्हृतस्ततो दुःखमिन्द्रियगणो नि[७]वार्यते ॥१९॥


  1. मणिमेखला:
  2. भग्न.
  3. मोहितः.
  4. च.
  5. अनाश्रयः; अनाश्रयम् ; अनास्पदम्.
  6. सः; हि.
  7. हि वार्यते.